SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ६५४ द्वादश भिक्षुप्रतिमाः यत् किञ्चित् प्रमादेन न सुष्ठ युष्माकं वर्तितं मया पूर्वम् । तत् युष्माकं क्षाम्यामि अहं निःशल्यः निष्कषाय इति ॥१४१६॥) प्रतिपद्यते-अभ्युपगच्छति मासिकी मासप्रमाणां महाप्रतिमां-गुरुकप्रतिज्ञां, तत्र च दत्तिः-अविच्छिन्नदानरूपा एका-एकैव भोजनस्य-अन्नस्याज्ञातोञ्छरूपस्योत्तरैषणापञ्चकान्यतरोपात्तस्यालेपकारिणः कृपणादिभिरजिघृक्षितस्य एकस्वामिसत्कस्यैव अगुर्विणीबालवत्सापीयमानस्तनाभिर्दीयमानस्य एलुकाविष्कम्भणतः, तथा पानस्यापि-पानकाहारस्य च एकैव तेन ग्राह्या मासमेकं यावदिति ॥७॥ 'आई' इत्यादि, 'आईमज्झवसाणे 'त्ति दिवसस्यादौ मध्येऽवसाने वा, किमिति ?, आह-गोरिव चरणं गोचरः, यथा गौरुच्चावचतृणेषु मुखं वाहयंश्चरति एवं यदुच्चावचगृहेषु साधोभिक्षार्थं सञ्चरणं स गोचरः ततः षड्भिर्गोचरैर्हिण्डत इति षड्गोचरहिण्डकः, ते चामी पेटा १ अर्धपेटा २ गोमूत्रिका ३ पतङ्गवीथिका ४ संबुक्कवृत्ता ५ गत्वाप्रत्यागता ६ चेति, तत्र पेटा-चतुरस्रतागमनं अर्धपेट पेटार्धसमानतागमनं गोमूत्रिकागोमूत्रवद्गमनं पतङ्गवीथिकाशलभवद्गमनं अईवितर्दमित्यर्थः संबुक्कवृता-शङ्खवद्वृत्ततागमनं, सा च द्विविधा प्रदक्षिणतोऽप्रदक्षिणतश्च, गत्वाप्रत्यागता नाम एकस्यां गृहपङ्क्त्यां भिक्षां गृह्णन् गत्वा द्वितीयायां तथैव निवर्तते यत्रेति, 'इमो 'त्ति अयं प्रतिमाप्रतिपन्नः ज्ञेयो ज्ञातव्यः, तथा ज्ञातः-प्रतिमाप्रतिपन्नोऽयमित्येवं जनेनावसितः सन् एकरात्रवासी-एकत्र ग्रामादावहोरात्रमेव वस्तुं शीलः, तथा एकं च-एकरात्रं द्विकं च-रात्रिद्वयं ग्रामादौ वस्तुं शीलमिति गम्यं चशब्दौ विकल्पार्थों अज्ञातो-यत्र ग्रामादावविदितः प्रतिमाप्रतिपन्नतयेति ॥८॥ याचनं-संस्तारकोपाश्रयादीनां याञ्चार्था भाषा, पृच्छा - संशयितसूत्रार्थयोर्गहादेर्वा प्रश्नरूपा भाषा, अनुज्ञापनं-तृणकाष्ठादीनामनुज्ञापनभाषा, प्रश्नव्याकरणं-प्रश्नितानां सूत्रादीनां सकृद् द्विर्वा अभिधानरूपा भाषा एतदेव भाषते-वक्ति योऽसौ याचनपृच्छानुज्ञापनप्रश्नव्याकरणभाषकः, चैवशब्दोऽवधारणार्थत्वेन भाषान्तरनिषेधार्थः, तथा गृहशब्दस्य प्रत्येकमभिसम्बन्धात् आगमनगृहं-आगन्तुकागारं यत्र कार्पटिकादय आगत्य वसन्ति तथा विवृतगृहं-यदधः कुड्याभावाद् उपरि चाच्छादनाभावादनावृतं तथा वृक्षमूलकं-करीरादितरुमूलं साधुवर्जनीयदोषरहितं एतल्लक्षणाऽऽवासकत्रिकं वसतित्रयं यस्यासावागमनविवृतगृहवृक्षमूलकावासकत्रिकः, इतिशब्दो वाक्यसमाप्ताविति ॥९॥ पृथिवीति-पृथिवीशिला 'उदूगो'त्ति लोके रूढः 'कट्ठ'त्ति काष्ठशिला-काष्ठफलकं 'जहत्थिण्ण'त्ति यथास्तीर्णं-यथा संस्तृतः कुशादिसंस्तारकः स चासौ सारश्च-अशुषिरो
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy