________________
द्वादश भिक्षुप्रतिमाः
६५३ जत्थऽत्थमेइ सूरो न तओ ठाणा पयंपि संचरइ। पायाई ण पखालइ एसो वियडोदगेणावि ॥११॥ दुट्ठस्सहत्थिमाई तओ भएणं पयंपि णोसरई ।
एमाइणियमसेवी विहरड़ जाऽखंडिओ मासो ॥१२॥ (छाया- गच्छात् विनिष्क्रम्य प्रतिपद्यते मासिकी महाप्रतिमां ।
दत्तिरेका भोजनस्य पानस्यापि एका यावत् मासम् ॥७॥ आदिमध्यावसाने षड्गोचरहिण्डकोऽयं ज्ञेयः । ज्ञात एकरात्रवासी एकं च द्विकं च अज्ञाते ॥८॥ याचनपृच्छानुज्ञापनप्रश्नव्याकरणभाषक एव । आगमनविकटगृहवृक्षमूलावासकत्रिकः इति ॥९॥ पृथ्वीकाष्ठयथास्तीर्णसारशायी न अग्नेः बिभेति । काष्ठादि पादलग्नं नापनयति तथाऽक्षिकणुकं वा ॥१०॥ यत्रास्तमेति सूरो न ततः स्थानात् पदमपि सञ्चरति । पादादि न प्रक्षालयति एष विकटोदकेनापि ॥११॥ दुष्टाश्वहस्त्यादेः तको भयेन पदमपि नापसरति ।
एवमादिनियमसेवी विहरति यावदखण्डित: मासः ॥१२॥) वृत्तिः - गच्छात् - साधुसमूहात् विनिष्क्रम्य-तं विमुच्येत्यर्थः, तत्र यदि आचार्यादिरसौ तदाऽल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रव्यादिषु शरत्काले सकलसाध्वामन्त्रणपूर्वकं, उक्तं च -
'खामेइ तओ संघ सबालवुटुं जहोचियं एवं । अच्चंतं संविग्गो पुव्वविरुद्धे विसेसेणं ॥१४१५॥ जं किंचि पमाएणं न सुटु भे वट्टियं मए पुट्वि ।
तं भे खामेमि अहं निस्सल्लो निक्कसाओत्ति ॥१४१६॥' (पञ्चवस्तुकः) (छाया- क्षाम्यति ततः सङ्गं सबालवृद्धं यथोचितं एवम् ।
अत्यन्तं संविग्नः पूर्वविरुद्धान् विशेषेण ॥१४१५॥