SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ६५२ द्वादश भिक्षुप्रतिमाः उज्झितधर्मा तु यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्धत्यक्तं वा गृह्णत इति सप्तमी, अभिगृहीता-अभिग्रहवतीति, अभिग्रहश्चैवं - तासामाद्ययोर्द्वयोरग्रहः, पञ्चसु ग्रहः, पुनरपि विवक्षितदिवसे द्वयोरभिग्रहः एका भक्ते एका च पानके इति, भक्तं च - अन्नं पुनः अलेपकृतं - अलेपकारकं वल्लचणकादि तस्य प्रतिमाप्रतिपत्तुकामस्य परिकर्म कुर्वतः, चशब्दादुपधिश्च अस्य स्वकीयैषणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचितप्राप्ति यावत् स्यात्, जाते तूचिते तं व्युत्सृजति, उक्तं च - 'उवगरणं सुद्धेसणमाणजुयं जमुचियं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचियं तु ॥१३८२॥ जोए उचिए य तयं वोसिड़ अहागडं विहाणेणं । इय आणानिरयस्सिह विण्णेयं तंपि तेण समं ॥१३८३॥' (पञ्चवस्तुकः) (छाया- उपकरणं शुद्धैषणमानयुतं यदुचितं स्वकल्पस्य । तत् गृह्णाति तदभावे यथाकृतं यावदुचितं तु ॥१३८२।। योगे उचिते च तकत् व्युत्सृजति यथाकृतं विधानेन । इति आज्ञानिरतस्येह विज्ञेयं तदपि तेन समम् ॥१३८३॥) कल्पोचितं चोपधिमुत्पादयति स्वकीयेनैषणाद्वयेन, एतच्चैषणाचतुष्टयेऽन्तिमं, एषणाचतुष्टयं पुनरिदं-कार्पासिकाधुद्दिष्टमेव वस्त्रं ग्रहीष्यामि १ प्रेक्षितमेव २ परिभुक्तप्रायमेवोत्तरीयादि ३ तदप्युज्झितधर्मकमेव ४ । इति गाथार्थः ॥६॥ ___ अथैवंकृतपरिकर्मा यत्करोति तद्गाथाषट्केनाह - 'गच्छा' 'आई' 'जाय' 'पुढ' 'जत्थ' 'दु?'इत्यादि - गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्स पाणस्सवि एग जा मासं ॥७॥ आईमज्झवसाणे छग्गोयरहिंडगो इमो णेओ। णाएगरायवासी एगं च दुगं च अण्णाए ॥८॥ जायणपुच्छाणुण्णावणपण्हवागरणभासगो चेव । आगमणवियडगिहरुक्खमूलगावासयतिगोत्ति ॥९॥ पुढवीकट्ठजहत्थिण्णसारसाई ण अग्गिणो बीहे। कट्ठाइ पायलग्गं णऽवणेइ तहच्छिकणुगं वा ॥१०॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy