________________
अष्टविधा योगदृष्टयः
४२१ अयमप्येवङ्कल्प एव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात्, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः तदभावे प्रयोगवैकल्यात्, ततस्तथातत्कार्याभावादिति ।।
बलायामप्येष काष्ठाग्निकणकल्पो विशिष्ट ईषदुक्तबोधद्वयात्, तद्भवतोऽत्र मनाक् स्थितिवीर्ये, अतः पटुप्राया स्मृतिरिह प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीप्रायां त्वेष दीपप्रभातुल्यो विशिष्टतर उक्तबोधत्रयात्, अतोऽत्रोदने स्थितिवीर्ये, तत्पव्यपि प्रयोगसमये स्मृतिः । एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः ।
स्थिरा तु भिन्नग्रन्थेरेव भवति तद्बोधो रत्नप्रभासमानस्तद्भावाऽप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति । कान्तायां तु ताराभासमान एषः, अतः स्थित एव प्रकृत्या निरतिचारमा(म)त्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधान(नं) गम्भीरोदाराशयमिति ।
प्रभायां पुनरर्कभासमानो बोधः, स ध्यान(सद्धयान)हेतुरेव सर्वदा, नेह प्रायो विकल्पावसर: प्रशमसारं सुखमिह, अकिञ्चित्कराण्यत्रान्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनेयेषु, तथाऽवन्ध्या सत्क्रियेति । परायां पुनदृष्टौ चन्द्रचन्द्रिकाभासमानो बोधः सद्ध्यानरूप एव सर्वदा विकल्परहितं मनः, तदभावेनोत्तमं सुखं आरूढावरोहणवन्नानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यत्वं(भव्यं) तथा पूर्ववदवन्ध्या क्रियेति ।
एवं सामान्येन सदृष्टॉगिनो दृष्टिरष्टधेत्यष्टप्रकारा । अत्राह - ग्रन्थिभेदे सदृष्टित्वं स च दीर्घो(?प्रो)त्तरकालमिति कथं सद्दष्टेदृष्टिरष्टधेति ? उच्यते । अवन्ध्यसदृष्टिहेतुत्वेन मित्रादिदृष्टीनामपि सतीत्वादिति । वर्षोलकनिष्पत्ताविक्षुरसकक्कबगुडकल्पाः खल्वेताः खण्डसर्करामत्स्यण्डीवर्षोलकसमाश्चेतरा इत्याचार्याः, इक्ष्वादीनामेव तथाभवनादिति । रुच्यादिगोचरा एवैताः एतेषा(तासा)मेव संवेगमाधुर्योपपत्तेः इक्षु(इक्ष्वादि)कल्पत्वादिति । नलादिकल्पास्त्वभव्याः, संवेगमाधुर्यशून्यत्वात् । अनेन 'सर्वथाऽपरिणामिक्षणिकात्मवादे दृष्टिभेदाभावमाह तत्तथाभवनानुपपत्तेरिति ॥१५॥
इयं च सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाभिधातुमाह -
१. एकान्तनित्यानित्यात्मकादिमते इत्यर्थः ।