SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ४२२ अष्टविधा योगदृष्टयः यमादियोगयुक्तानां, खेदादिपरिहारतः । अद्वेषादिगुणस्थानं, क्रमेणैषा सतां मता ॥१६॥ वृत्तिः - यमादियोगयुक्तानामिति । इह यमादयो योगाङ्गत्वाद्योगा उच्यन्ते । यथोक्तं 'यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि' [पात० योग० २२१] । तदेवं यमादियोगप्रत्यनीकाशयपरिहारेण । एतेऽपि चाष्टावेव तथा - "खेदोद्वेगक्षेपोत्थान-भ्रान्त्यन्यमुद्रुगासङ्गैः ।। युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ॥१॥"[षडोशक प्र० १४-३] तदेतत्परिहारेणापि क्रमेणैषाष्टधेति । एवमद्वेषादिगुणस्थानमिति यत एतान्यप्यष्टावेव । यथोक्तम् - "अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥१॥"[षोडशक प्र० १६-१४] एवं क्रमेणैषा सदृष्टिः सतां - मुनीनां भगवत्पतञ्जलिभदन्तभास्करबन्धुभगवद्दत्तादीनां योगिनामित्यर्थः मता - इष्टा । एतत्साकल्यं च प्रतिदृष्टि दर्शयिष्यामः ॥१६॥ साम्प्रतं दृष्टिशब्दार्थाभिधानायाह - सच्छ्रद्धासङ्गतो बोधो, दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात् सत्प्रवृत्तिपदावहः ॥१७॥ वृत्तिः - सच्छ्रद्धासङ्गतो बोधः इत्यनेनासच्छ्रद्धाव्यवच्छेदमाह, असच्छ्रद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस्तथाविधासदूहात्मिका गृह्यते, तद्वैकल्यात् सच्छ्रद्धासङ्गतः इति एवम्भूतो बोधोऽवगमः, किमित्याह दृष्टिरित्यभिधीयते । दर्शनं दृष्टिरिति कृत्वा निष्प्रत्यपायतया । फलत एतामेवाह असत्प्रवृत्तिव्याघातात् इति तथाश्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन किमित्याह सत्प्रवृत्तिपदावहः इति । शास्त्राऽविरुद्धप्रवृत्तिपदावहोऽवेद्यसंवेद्यपदपरित्यागेन वेद्यसंवेद्यपदप्रापक इत्यर्थः । वेद्यसंवेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्य, एवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वेन न कश्चिद्दोष इति ॥१७॥ एषा च परिस्थूरभेदादष्टधा, अन्यथा बहुभेदेत्यभिधातुमाह - इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु, भूयांसः सूक्ष्मभेदतः ॥१८॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy