________________
४२०
अष्टविधा योगदृष्टयः
अङ्गुल्यादिना स्पृशति, प्राकाम्यम् - येन पानीये प्रविश्य भूमौ इव गमनं करोति, अथवा पानीये इव पृथिव्यां उन्मज्जनं निमज्जनं च करोति, ईशित्वम् - येन तीर्थकरस्य इन्द्रस्य वा सदृशीं ऋद्धि विकुर्व्य दर्शयति, वशित्वम् - येन सर्वजीनान् वशीकरोति । एता सिद्धयः । '
गुरुरष्टानां महासिद्धीनां स्वरूपं सुष्ठु वेत्ति ।
योगो मोक्षेण योजक आचारः । यदुक्तं ज्ञानसारे- 'मोक्षेण योजनाद् योगः, सर्वोऽप्याचार इष्यते ।.... ॥२७ / १ ॥ '
दृष्टि:
श्रद्धासमन्वितो बोधः, योगस्य - योगयोगिनोरभेदात् योगिनो दृष्टिरिति योगदृष्टिः । साऽष्टधा भवति । तद्यथा १ मित्रा दृष्टिः, २ तारा दृष्टिः, ३ बला दृष्टि:, ४ दीप्रा दृष्टि:, ५ स्थिरा दृष्टिः, ६ कान्ता दृष्टिः, ७ प्रभा दृष्टिः ८ परा दृष्टिश्च । यदाह योगदृष्टिसमुच्चये तद्वृत्तौ च
-
'मित्रा तारा बला दीप्रा, स्थिरा कान्ता प्रभा परा । नामानि योगदृष्टीनां लक्षणं च निबोधत ॥१३॥
वृत्तिः तत्र मित्रेव मित्रा, तारेव तारेत्यादि यथार्थान्येव नामानि योगदृष्टीनाम्, लक्षणं चासां वक्ष्यमाणलक्षणं, निबोधत शृणुतेत्यर्थः ॥१३॥
प्रकृतं प्रस्तुमः प्रकृता च मित्रादिभेदभिन्ना योगदृष्टिः, इयं चेत्थमष्टधेति निदर्शनमात्रमधिकृत्याह -
तृणगोमयकाष्ठाग्नि-कणदीपप्रभोपमा । रत्नतारार्कचन्द्राभा, सद्द्दष्टेर्हष्टिरष्टधा ॥ १५ ॥
वृत्तिः - इहाधिकृतदृष्टिबोधः खल्वर्थोक्त एव तृणाग्निकणाद्युदाहरणसाधर्म्यतो निरूप्यते। सामान्येन सद्द्दष्टे - योगिनो दृष्टि - बधलक्षणाष्टधा भवति । तृणाग्निकणोपमा मित्रायां, गोमयाग्निकणोपमा तारायां, काष्ठाग्निकणोपमा बलायां, दीपप्रभोपमा दीप्रायां, तथाविधप्रकाशमात्रादिनेह साधर्म्यम् ।
यदाह-मित्रायां बोधस्तृणाग्निकणसदृशो भवति, न तत्त्वतोऽभीष्टकार्यक्षमः, सम्यक् - प्रयोगकालं यावदनवस्थानादल्पवीर्यतया (ततः) पटुस्मृतिबीजसंस्काराधानानुपपत्तेः, ततश्च विकलप्रयोगभावाद्भावतो वन्दनादिकार्यायोगादिति । तारायां तु बोधो गोमयाग्निकणसदृशः,