________________
अष्टविधा महासिद्धयः
ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः । समाधिस्तु तदेवार्थ- मात्राभासनरूपकम् ॥१५४॥ एवं योगो यमाद्य-रष्टभिः सम्मतोऽष्टधा । मोक्षोपायो योगो ज्ञान - श्रद्धानचरणात्मकः ॥१५५॥'
—
गुरुर्योगस्याष्टाङ्गानां स्वरूपं सम्यगवगच्छति ।
महासिद्धयो महैश्वर्यरूपाः । ता अष्टविधाः । तद्यथा १ लघिमा, २ वशिता, ३ ईशित्वं, ४ प्राकाम्यं, ५ महिमा, ६ अणिमा, ७ यत्रकामावसायित्वं, ८ प्राप्तिश्च ।
उक्तञ्च
'लघिमा वशितेशित्वं, प्राकाम्यं महिमाऽणिमा । यत्रकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ '
एतासां स्वरूपमेवं वर्णितं तत्त्वार्थाधिगसूत्रभाष्ये तद्वृत्तौ च
४१९
-
'अणिमा बिसच्छिद्रमपि प्रविश्यासीत ।
लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् ।
महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिर्भूमिष्ठोऽङ्गुल्यग्रेण मेरुशिखरभास्करादीनपि स्पृशेत् ।
प्राकाम्यमप्सु भूमाविव गच्छेत्, भूमावप्स्विव निमज्जेदुन्मज्जेच्च ।... ॥१०/७॥'
- तत्त्वार्थभाष्यम् ।
'ईशित्वं सर्वभूतेश्वरत्वम् ।
वशित्वं सर्वभूतानि स्ववशवर्तीनि ॥...॥१०/७॥' तत्त्वार्थभाष्यवृत्तिः । कामावसायित्वं सदाऽपि कामचारित्वम् ।
-
श्रीजयतिहुअणस्तोत्रचतुर्थवृत्तस्योपाध्यायसमयसुन्दरगणिकृतवृत्तौ
त्वेवमुक्तम् - ' तथा हे जिन ! तव नाम्ना अष्टविधाः सिद्धयः सिध्यन्ति, कीदृश्यः सिद्धयः ? भुवनाद्भुताः जगति आश्चर्यभूताः अष्टसिद्धयः । का ? अणिमाद्यास्तत्र अणिमा - येन अणु लघु शरीरं कृत्वा बिसछिद्रमपि प्रविशति, तत्र चक्रवर्तिभोगानपि भुङ्क्ते, महिमा - येन मेरुप्रमाणमपि शरीरं करोति, लघिमा - येन अर्कतूलादपि लघुतरशरीरं करोति, गरिमा- ये वज्रादपि गुरुतरं शरीरं करोति, प्राप्तिः यया भूमिस्थः पुरुषो मेरुपर्वताग्रस्थसूर्यकिरणान्
-