________________
४१८
अष्टविधानि योगाङ्गानि नीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यम्, अतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदये चोच्चैःकुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात्, नीचैःकुलोत्पन्नस्य तु दानलाभान्तरायाधुदयः, नीचजातीनां तथादर्शनात्, तत एतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरायग्रहणमिति ॥३॥' ...
गुरुः सोत्तरभेदानि अष्टविधानि कर्माणि जानाति । मोक्षेण सह योजयतीति योगः । उक्तञ्च योगबिन्दौ तवृत्तौ च - 'योजनाद्योग इत्युक्तो, मोक्षेण मुनिसत्तमैः ।...॥२०१॥
वृत्तिः - योजनाद्-घटनात्, मोक्षेण इत्युत्तरेण सम्बन्धः, योग इति - अस्माद्धेतोः उक्तो मुनिसत्तमैः - ऋषिपुङ्गवैः ।....।।२०१॥'
योगस्याऽष्टावङ्गानि । तद्यथा - १ यमः, २ नियमः, ३ आसनं, ४ प्राणायामः, ५ प्रत्याहारः, ६ धारणा, ७ ध्यानं ८ समाधिश्च । यदवाचि ध्यानदीपिकायामपाध्यायश्रीसकलचन्द्रगणिः -
'यमनियमासनबन्धं, प्राणायामेन्द्रियार्थसंवरणम् ।
ध्यानं ध्येयसमाधि, योगाष्टाङ्गानि चेति भज ॥१८॥' पातञ्जलयोगसूत्रेऽप्युक्तम् - 'यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥२/२१॥' यमादीनां स्वरूपमेवं प्रोक्तं षड्दर्शनसमुच्चये श्रीराजशेखरसूरिभिः -
'अष्टाङ्गयोगसिद्धयर्थं, दध्युलिङ्गानि लिङ्गिनः । सर्वे प्राहुस्तमष्टाङ्ग, तत्स्वरूपं वदाम्यथ ॥१५०॥ अहिंसासूनृतास्तेय-ब्रह्माकिञ्चनता यमाः । नियमाः शौचसन्तोषौ, स्वाध्यायतपसी अपि ॥१५१॥ देवताप्रणिधानञ्च, करणं पुनरासनम् । प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनम् ॥१५२॥ प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्यः समातिः । धारणा तु क्वचिद् ध्येये, चित्तस्य स्थिरबन्धनम् ॥१५३॥