SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ६३४ द्वादश उपयोगाः हितस्वरूपाणि चत्वारि दर्शनानि चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि इत्येवं द्वादशोपयोगाः प्राग्निरूपितशब्दार्था भवन्ति । किविशिष्टाः ? इत्याह - 'जियलक्खण' त्ति प्राकृतत्वाद् विभक्तिलोपः, जीवस्य आत्मनः लक्षणं लक्ष्यते ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणम् - असाधारणं स्वरूपम् । अत एवोक्तमन्यत्र - 'उपयोगलक्षणो जीवः' इति । ते च द्विधा साकारा अनाकाराश्च । तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि इत्यष्टावुपयोगा: साकाराः, चत्वारि दर्शनानि अनाकारा उपयोगाः ।' पञ्चज्ञानानां स्वरूपमग्रे द्वात्रिंशत्तमषत्रिशिकावृत्तौ विस्तरेण प्ररूपयिष्यते । त्रयाणामज्ञानानां चतुर्णाञ्च दर्शनानां स्वरूपमेवं निरूपितं प्रज्ञापनासूत्रवृत्तौ - 'मतिश्रुतावधय एव यदा मिथ्यात्वकलुषिता भवन्ति तदा यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशाल्लभन्ते । उक्तञ्च, 'आद्यं त्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तमिति ।' विभङ्ग इति विपरीतो भङ्ग परिच्छित्तिप्रकारो यस्य तद्विभङ्गं तच्च तत् ज्ञानं च विभङ्गज्ञानम् । ...तत्र चक्षुषा चक्षुरिन्द्रियेण दर्शनं रूपसामान्यग्रहणं च चक्षुर्दर्शनं, तच्च तत् अनाकारोपयोगः, अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं स्वस्वविषये सामान्यग्रहणमचक्षुर्दर्शनम् । ततोऽनाकारोपयोगशब्देन विशेषणसमासः । एवमुत्तरत्रापि । अवधिरेव रूपदर्शनं सामान्यग्रहणमवधिदर्शनम् । केवलमेव सकलजगद्भाविसमस्तवस्तुसामान्यपरिच्छेदरूपं दर्शनं केवलदर्शनम् ।' (२९ तमपदम्) गुरुादशोपयोगान् सम्यग् वेत्ति ।। पापं छिनत्तीति प्रायश्चित्तम्, पृषोदरादित्वाच्छब्दसंस्कारः । अथवा प्रायः - बाहुल्येन चित्तं विशोधयतीति प्रायश्चित्तम् । उक्तञ्च पञ्चाशकप्रकरणषोडशपञ्चाशके तद्वत्तौ च - 'पावं छिंदति जम्हा पायच्छित्तंति भण्णई तेण । पाएण वावि चित्तं सोहयती तेण पच्छित्तं ॥३॥ (छाया- पापं छिनत्ति यस्मात् पायच्छित्तमिति भण्यते तेन । प्रायेण वापि चित्तं शोधयति तेन प्रायश्चित्तम् ॥३॥) वृत्तिः - अथ प्रायश्चित्तनिरुक्ताभिधानायाह - 'पाव'मित्यादि, पापं-अशुभं छिनत्तिकृन्तति यस्माद्धेतोः पापच्छिदिति वक्तव्ये प्राकृतत्वेन पायच्छित्तमिति भण्यते-निगद्यते
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy