________________
दशविधं प्रायश्चित्तम्
६३५ तेन-तस्माद्धेतोः, प्रायेण-बाहुल्येन वापीति-अथवा चित्तं-मनः शोधयति-निर्मलयति तेन हेतुना प्रायश्चित्तमित्युच्यते । इति गाथार्थः ॥३॥'
प्रायश्चित्तं दशविधम् । तद्यथा - १ आलोचनं, २ प्रतिक्रमणं, ३ आलोचनप्रतिक्रमणे, ४ विवेकः, ५ व्युत्सर्गः, ६ तपः, ७ छेदः, ८ मूलं, ९ अनवस्थाप्यं १० पाराञ्चिकञ्च । यदाह पञ्चाशकप्रकरणषोडशपञ्चाशके तद्वत्तौ च -
'आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे।
तव छेय मूल अणवठ्ठया य पारंचिए चेव ॥२॥ (छाया- आलोचनं प्रतिक्रमणं मिश्रं विवेकस्तथा व्युत्सर्गः ।
तपः छेदो मूलं अनवस्थाप्यता च पाराञ्चिकश्चैव ॥२॥) वृत्तिः - दशविधत्वमेव तस्याह - 'आलो' इत्यादि, आलोचनं आलोचना-गुरोः स्वचरितप्रकाशना, तथा प्रतीपं क्रमणं-अतिचारान्निवृत्त्य गुणेष्वेव गमनं मिथ्यादुष्कृतदानमिति तात्पर्य, तथा मिश्रं-आलोचनामिथ्यादुष्कृतरूपमुभयं, तथा विवेचनं विवेकःअनेषणीय-भक्तादित्यागः, तथेति समुच्चये व्युत्सर्जनं व्युत्सर्ग:-कायोत्सर्गः इत्यर्थः, तथा तापयति-कर्म दहतीति तपो-निर्विकृतिकादि, तथा छेदः-तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनं, तथा मूलं-महाव्रतानां मूलत आरोपणं, तथाऽवस्थाप्यत इत्यवस्थाप्यस्तन्निषेधादनवस्थाप्यस्तद्भावोऽनवस्थाप्यता-दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणं, चः समुच्चये तथा पारं-अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा अञ्चति-गच्छतीत्येवं शीलं पाराञ्चि तदेव पाराञ्चिकं चैवेतिशब्दौ समुच्चयावधारणार्थों तयोश्च पाराञ्चिकमेव चेत्येवं प्रयोगः, दशाप्येतानि प्रथमैकवचनान्तानि, निरनुस्वारतैकारान्तत्वादि चैतेषु प्राकृतत्वादिति द्वारगाथासमासार्थः ॥२॥'
आवश्यकनियुक्तौ तद्वृत्तौ चातिचारस्य भावव्रणत्वं प्रायश्चित्तस्य च भावभैषजत्वमित्थं प्रदर्शितम् - ..... -- ‘एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः-द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, तथा चाह -
दुविहो कायंमि वणो तदुब्भवागंतुओ अ णायव्यो । आगंतुयस्स कीइ सल्लुद्धरणं न इयरस्स ॥१४१९॥