________________
पञ्चदशी षट्त्रिशिका
अथ पञ्चदशीं षट्त्रिशिकामाह -
मूलम् - बारसउवओगविऊ, दसविहपच्छित्तदाणनिउणमई । चउदसउवगरणधरो, छत्तीसगुणो गुरू जयउ ॥१६॥
छाया - द्वादशोपयोगविद्, दशविधप्रायश्चित्तदाननिपुणमतिः । चतुर्दशोपकरणधरः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१६॥
प्रेमीया वृत्तिः - द्वादशोपयोगविद् - द्वादश उपयोगान् वेत्तीति तथा, दशविधप्रायश्चित्तदाननिपुणमतिः - दशविधस्य प्रायश्चित्तस्याऽर्पणे कुशला बुद्धिर्यस्येति तथा, चतुर्दशोपकरणधरः - चतुर्दशविधान् उपकरणान् धारयतीति तथा षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः ।
-
१
विस्तरार्थस्त्वयम् - उपयुज्यते - वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगाः बोधरूपा जीवस्य स्वतत्त्वभूता व्यापाराः । ते द्वादशविधाः । तद्यथा मतिज्ञानं, २ श्रुतज्ञानं, ३ अवधिज्ञानं, ४ मनः पर्यायज्ञानं, ५ केवलज्ञानं, ६ मत्यज्ञानं, ७ श्रुताज्ञानं, ८ विभङ्गज्ञानं, ९ अचक्षुः दर्शनं, १० चक्षुः दर्शनं, ११ अवधिदर्शनं, १२ केवलदर्शनञ्च । यदुक्तं चतुर्थकर्मग्रन्थे तद्वृत्तौ च
'तिअनाण नाण पण चउ, दंसण बार जिय लक्खणुवओगा ।...॥३०॥
(छाया - त्रीण्यज्ञानानि ज्ञानानि पञ्च चत्वारि दर्शनानि,
द्वादश जीवस्य लक्षणमुपयोगाः |...||३०|)
वृत्ति: - त्रीण्यज्ञानानि मत्यज्ञान श्रुताज्ञानविभङ्गरूपाणि ज्ञानानि मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञानकेवलज्ञानलक्षणानि पञ्च स्वोपज्ञकर्मविपाकटीकायां विस्तरेणाभि