SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ६१० त्रयोदश क्रियास्थानानि बलश्रुततपोलाभैश्वर्यमदलक्षणेनाष्टविधेन मानेन मत्तः सन् परं आत्मव्यतिरिक्तं हीलयतिजात्यादिभिर्निन्दति निकृष्टोऽयमित्यादिवचनैः परिभवत्यनेकाभिः कदर्थनाभिर्मानप्रत्यया एषा क्रियेति ९ ॥८२८-८२९॥ ____दशमं क्रियास्थानमाह - 'माई'त्यादि, यः पुनर्मातापितृस्वजनादीनामल्पेऽप्यपराधे तीव्र दण्डं कुरुते दहनाङ्कनबन्धताडनादिकं तन्मित्रद्वेषवर्तिक्रियास्थानं, अमित्रक्रियेत्यर्थः, भवेद्दशमं क्रियास्थानमिति, तत्र दहनं उल्मुकादिभिर्दम्भनं, अङ्कन-ललाटादिषु चिह्नकरणं, बन्धो-रज्ज्वादिभिर्नियन्त्रणं, ताडनं-कशादिभिराहननं, आदिशब्दादन्नपाननिषेधादिपरिग्रहः १० ॥८३०॥ एकादशं क्रियास्थानमाह - ‘एगारे'त्यादि, एकादशं माया-मायाक्रियास्थानं यथा हृदये-मनसि अन्यत्-वचःक्रियाविलक्षणं वाचि-वचसि अन्यत्-मनःक्रियाविलक्षणं अन्यच्च वाङ्मानसविसंवादि आचरति-करोति, कथम्भूतः सन् ? गूढसामर्थ्यः गूढे-गोपने सामर्थ्य-शक्तिविशेषो यस्य स तथा, केन कृत्वा ? - स्वकर्मणा निजचेष्टितेनाकारेङ्गितादिना, मायाप्रत्यया एषा क्रियेति ११ ॥८३१॥ द्वादशं क्रियास्थानमाह - ‘एत्तो' इत्यादि, इत:-ऊर्ध्वं पुनर्लोभप्रत्यया क्रिया इयंवक्ष्यमाणा, यथा सावद्यारम्भाः-प्राण्युपमर्दादिना सपापव्यापारा ये परिग्रहा-धनधान्यादिरूपास्तेषु महत्सु-गुरुषु सक्तो-गाढतराकाङ्क्षायुक्तः, तथा स्त्रीषु युवतिषु कामेषु चमनोज्ञरूपरसगन्धस्पर्शशब्दस्वरूपेषु गृद्धः-अत्यन्तमभिसक्तः, तथाऽऽत्मानमपायेभ्यो गाढादरेण रक्षन् अन्येषां सत्त्वानां-प्राणिनां वधबन्धनमारणानि-लगुडादिहननरज्ज्वादिसंयमनप्राणव्यपरोपणलक्षणानि करोति एषा इह-सिद्धान्ते लोभप्रत्यया लोभनिबन्धना क्रियेति १२ ।।८३२-८३३॥ त्रयोदशं क्रियास्थानमाह-अतो-लोभक्रियानन्तरमैर्यापथिकी क्रियां प्रवक्ष्यामि, तत्र ईरणमीर्या-गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यः केवलयोगप्रत्यय उपशान्तमोहादित्रयस्य सातवेदनीयकर्मबन्धः सा ऐर्यापथिकी, इह खल्वनगारस्य साधोः समितिषु-ईर्यासमित्यादिषु गुप्तिषु-मनोगुप्त्यादिषु गुप्तस्य सुसंवृतस्य सततमेवाप्रमत्तस्योपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवतिनः, अन्येषां तु अप्रमत्तानामपि कषायप्रत्ययकर्मबन्धसद्भावेन केवलयोग
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy