SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ त्रयोदश क्रियास्थानानि ६०९ वधनिमित्तं निसृजति क्षिपति काण्डादिकं शरलेष्टुप्रभृतिकं अन्यं पुनराहन्यात् य एषोऽकस्माद्-अनभिसन्धिना अन्यवधार्थप्रवृत्त्या दण्ड:-अन्यस्य विनाशोऽकस्माद्दण्डः, यो वा 'नियंतो 'त्ति अवलोकयन् छेदनबुद्ध्या तृणादिकं अन्यत् शाल्यादिकं शस्यमनाभोगेन छिन्द्यादिति, अयमर्थः-अन्यस्मिन् शाल्यादिमध्यव्यवस्थिते तृणादिके छेत्तुमुपक्रान्ते अनाभोगतोऽन्यच्छाल्यादिकं छिन्द्यात् एष वाऽकस्माद्दण्डः ४ ॥८२२॥ पञ्चमं क्रियास्थानमाह - 'दिट्ठी'त्यादि, दृष्टे:-बुद्धेविपर्यासो-विपर्ययो मतिविभ्रम इत्यर्थः तस्मादयं-वक्ष्यमाणो दण्डो भवति, अमुमेवाह-यो मित्रमपि सदमित्रमिति कृत्वा घातयेत्, यो मित्रस्याप्यमित्रोऽयमिति बुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति भावः, अथवाऽपीति प्रकारान्तरद्योतने, ग्रामादीन् घातयेत्, अयमर्थ:-ग्राममध्यवर्तिना केनचित्कस्मिंश्चिदपराधे कृते समग्रमपि ग्रामं यन्मारयति एष वा दृष्टिविपर्यासदण्ड इति, यद्वा अस्तेनमपि स्तेनोऽयमिति कृत्वा हन्यादित्येष दृष्टिविपर्यासः पञ्चमं क्रियास्थानमिति ६ ॥८२३-८२४॥ अथ षष्ठं क्रियास्थानमाह - 'अत्तट्टे'त्यादि, आत्मार्थं परेषां वा-नायकादीनामर्थाय यो मृषा वदति स एष मृषाप्रत्ययिको-मृषाकारणिको दण्डः षष्ठो भवति ६ ॥८२५॥ सप्तमं क्रियास्थानमाह - 'एमेवे 'त्यादि, एवमेव मृषावाददण्डवदात्मनायका)आत्मनः परेषां वा नायकादीनां निमित्तं 'नाइग'त्ति पाठे तु ज्ञात्यर्थं-स्वजनार्थं यो गृह्णात्यदत्तंअन्येनावितीर्णमेषोऽदत्तवर्ती अदत्तदण्डक्रियावानित्यर्थः ७ ॥८२६॥ अयं पुनर्वक्ष्यमाणो भवति आध्यात्मिको दण्डः, अध्यात्म-मनस्तत्र भवो बाह्यनिमित्तानपेक्षः शोकोऽभिभव इति भावः, तमेवाह - 'नवी'त्यादि, यस्य सम्मुखं न कोऽपि किञ्चिदप्यनिष्टं जल्पति, तथापि हृदयेन-मनसा कृत्वा किञ्चिदतिशयेन दुर्मना:कालुष्यभाग्भवति तस्याध्यात्मिकी क्रिया 'सीसइ'त्ति कथ्यते, तस्य चाध्यात्मिकक्रियास्थानस्य इमानि-वक्ष्यमाणानि चत्वारि स्थानानि कारणानि भवन्ति, तान्येवाह - 'कोहो' इत्यादि, क्रोधो मानो माया लोभश्चेत्येतानि चत्वारि कारणान्यध्यात्मक्रियायां भवन्तीति, बाह्यनिमित्तानपेक्षमाभ्यन्तरनिष्कारणक्रोधादिसमुद्भूतं दौर्मनस्यमाध्यात्मिकक्रियेति तात्पर्यार्थः ८ ॥८२७॥ नवमं क्रियास्थानमाह - 'जो पुणे'त्यादि, यः पुनर्जातिमदादिना जातिकुलरूप
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy