________________
६०७
त्रयोदश क्रियास्थानानि
अन्यार्थाय निसृजति काण्डादि अन्यमाहन्यात् यस्तु । यो वा पश्यन् शस्यं छिन्द्यात् शालिआदिकम् ॥८२२।। एषः अकस्माद्दण्ड: ४ दृष्टिविपर्यासतः अयं भवति । यो मित्रममित्रमिति कृत्वा घातयेत् अथवाऽपि ॥८२३॥ ग्रामादीन् घातयेत् वा अस्तेनः स्तेन इति वाऽपि घातयेत् । दृष्टिविपर्यास एषः क्रियास्थानं तु पञ्चमकम् ५ ॥८२४॥ आत्मार्थं नायकादीनां वाऽपि अर्थाय यो मृषां वदति । स मृषाप्रत्ययिको दण्डः षष्ठो भवति एषः ६ ॥८२५॥ एवमेव आत्मनायकार्थं यो गृह्णाति अदत्तं तु । एषः अदत्तवृत्तिः ७ आध्यात्मिकोऽयं भवति ॥८२६॥ नापि कोऽपि च किञ्चिद्भणति तथापि खलु हृदयेन दुर्मनाः किञ्चित् । तस्य आध्यात्मिकी कथ्यते चत्वारि स्थानानि इमानि तस्य ॥८२७॥ क्रोधो मानो माया लोभो आध्यात्मिकक्रियायामेव । यः पुनः जातिमदादिअष्टविधेन तु मानेन ॥८२८॥ मत्तो हीलयति परं निन्दति परिभवति मानप्रत्यया एषा । मातृपितृज्ञात्यादीनां यः पुनः अल्पेऽपि अपराधे ॥८२९॥ तीव्र दण्डं करोति दहनाङ्कनबन्धताडनादिकम् । तन्मित्रदोषवत्ति क्रियास्थानं भवेत् दशमम् १० ॥८३०॥ एकादशं माया अन्यत् हृदये अन्यत् वाचि । अन्यत् आचरति वा स्वकर्मणा गूढसामर्थ्यः ॥८३१॥ मायाप्रत्यया एषा ११ अतः पुनः लोभप्रत्यया इमा । सावद्यारम्भपरिग्रहेषु सक्तो महत्सु ॥८३२।। तथा स्त्रीकामेषु गृद्धः आत्मानं च रक्षन् । अन्येषां सत्त्वानां वधबन्धनमारणानि करोति ॥८३३॥