SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ द्वादश श्रावकव्रतानि ६०३ नायागयाण अन्नाइयाण तह चेव कप्पणिज्जाणं । देसद्धसद्धसक्कारकमजुयं परमभत्तीए ॥३२५॥ (छाया- न्यायागतानां अन्नादीनां तथा चैव कल्पनीयानाम् । देशकालश्रद्धासत्कारक्रमयुक्तं परमभक्त्या ॥३२५॥ ) वृत्तिः - न्यायागतानामिति, न्यायो द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेनेदृशन्यायेनागतानां प्राप्तानामनेनान्यायागतानां प्रतिषेधमाह । अन्नादीनां द्रव्याणां आदिग्रहणात्पानवस्त्रपात्रौषधभेषजादिपरिग्रहः अनेनापि हिरण्यादिव्यवच्छेदमाह । कल्पनीयानामिति उद्गमादिदोषपरिवजितानां अनेनाकल्पनीयानां निषेधमाह । देशकालश्रद्धासत्कारक्रमयुक्तं नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिभाग्देशः, सुभिक्षदुभिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवन्दनाद्यनुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह । परमया प्रधानया भक्त्या इत्यनेन फलप्राप्तौ भक्तिकृतमतिशयमाहेति ॥३२५॥ आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु । एयं जिणेहि भणियं गिहीण सिक्खावयं चरिमं ॥३२६॥ (छाया- आत्मानुग्रहबुद्ध्या संयतेभ्यः यदत्र दानं तु । एतद् जिनैः भणितं गृहिणां शिक्षापदं चरमम् ॥३२६॥) वृत्तिः - आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रबुद्ध्येति तथाहि आत्मपरानुग्रहपरा एव यतयः । संयता मूलोत्तरगुणसम्पनाः साधवस्तेभ्यो दानमिति एतज्जिनैस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं अतिथिसंविभागाभिधानम् । इह भोजनार्थं भोजनकालोपस्थाय्यतिथिरुच्यते । आत्मार्थनिष्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः । यत उक्तं - - _ 'तिथिः पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥' तस्य संविभागो अतिथिसंविभागः संविभागग्रहणात्पश्चात्कर्मादिपरिहारमाहेति । एत्थ सामायारी-सावगेण पोसहं पारंतेण नियमा साहूणमदाउं न पारेयव्वं दाउं पारेयव्वं ।
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy