________________
६०२
द्वादश श्रावकव्रतानि
(छाया- देशे सर्वस्मिन् च द्विधैव एकैकः अत्र भवति ज्ञातव्यः । सामायिके विभाषा देशे इतरस्मिन्नियमेन ॥ ३२२ ॥ )
वृत्ति: - देश इति देशविषयः सर्व इति सर्वविषयश्च द्विधा द्विप्रकार एकैक आहारपौषधादिरत्र प्रवचने भवति ज्ञातव्यः सामायिके विभाषा कदाचित्क्रियते कदाचिन्नेति देशपौषधे, इतरस्मिन् सर्वपौषधे नियमेन सामायिकं अकरणादात्मवञ्चनेति ।
भावत्थो पुण इमो-आहारपोसहो दुविहो, देसे सव्वे य देसे अमुगा विगती आयंबिलं वा एक्कसिं वा दो वा सव्वे चउव्विहो आहारो अहोरत्तं पच्चक्खाओ । सरीरसक्कारपोसहो न्हाणुव्वट्टणवन्नगविलेवणपुप्फगन्धतम्बोलाणं वत्थाहरणपरिच्चागो य, सो दुविहो देसे सव्वे य, देसे अमुगं सव्वे य, देसे अमुगं सरीरसक्कारं न करेमि, सव्वे सव्वं न करेमि त्ति । बंभचेरपोसहो वि देसे सव्वे य, देसे दिवा रत्ति वा एक्कसिं वा दो वारे त्ति, सव्वे अहोरत्तं बंभचारी भवति । अव्वावारपोसहो वि दुविहो देसे सव्वे य, देसे अमुगंमि वावारंमि, सव्वे सव्वं वावारं चेव हलसगडघरकम्माइयं ण करेमि । एत्थ जो देसपोसहं करेइ सो सामायिकं करेइ वा ण वा, जो सव्वपोसहं करेइ सो नियमा कयसामाइओ, जइ ण करे तो णियमा वंचिज्जइ । कर्हि ? चेइयघरे साहुमले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं वा झायइ जहा एए साहुगुणा अहमसमत्थो मंदभग्गो धारेडं विभासा ।
(छाया - भावार्थ: पुनरयम् - आहारपौषधो द्विविधः, देशे सर्वे च, देशे अमुका विकृतिः आचाम्लं वा एकदा वा द्विः वा, सर्वः चतुर्विध आहारो अहोरात्रं प्रत्याख्यातः । शरीरसत्कारपौषधः स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धताम्बूलानां वस्त्राभरणपरित्यागश्च स द्विविधो देशे सर्वे च, देशे अमुकं शरीरसत्कारं न करोमि, सर्वे सर्वं न करोमि इति । ब्रह्मचर्यपौषधोऽपि देशे सर्वे च, देशे दिवा रात्रौ वा सकृद्वा द्विः इति, सर्वे अहोरात्रं ब्रह्मचारी भवति । अव्यापारपौषधोऽपि द्विविधो देशे सर्वे च देशे अमुके व्यापारे सर्वे सर्वं व्यापारमेव हलशकटगृहकर्म्मादिकं न करोमि । अत्र यो देशपौषधं करोति स सामायिकं करोति वा न वा, यो सर्वपौषधं करोति स नियमात् कृतसामायिको, यदि न करोति ततो नियमात् वञ्च्यते । कुत्र ? चैत्यगृहे साधुमूले वा गृहे वा पौषधशालायां वा उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन् धर्मध्यानं वा ध्यायति यथा एतान् साधुगुणान् अहमसमर्थो मन्दभाग्यो धारयितुं विभाषा ।)
उक्तं सातिचारं तृतीयं शिक्षापदव्रतमधुना चतुर्थमुच्यते
-