________________
द्वादश श्रावकव्रतानि
६०१
निर्वृत्तं देशावकाशिकमिति । नामेति सञ्ज्ञा । एतच्च सर्पविषज्ञातात् सर्पोदाहरणेन विषोदाहरणेन च । जहा सप्पस्स पुव्वं बारस जोयणाणि विसओ आसी दिट्ठीए पच्छा विज्जावाइएण ओसारंतेण जोयणे ठविओ एवं सावगो दिसिव्वयाहिगारे बहुयं अवरज्झियाइओ पच्छा देसावगासिएणं तं पि ओसारइ, अहवा विसदिट्टंतो अगएण एगाए अंगुलीए ठवियं एवं विभासा ।
(छाया- यथा सर्पस्य पूर्वं द्वादश योजनानि विषय आसीत् दृष्टेः पश्चात् विद्यावादिकेन अपसारयता योजने स्थापित एवं श्रावको दिग्व्रताधिकारे बहुकं अपराद्धं पश्चात् देशावकाशिकेन तदपि अपसारयति, अथवा विषदृष्टान्तो अगदेन एकस्यामङ्गुल्यां स्थापितं एवं विभाषा ।)
एवमप्रमादात्प्रतिदिनादिपरिमाणकरणे अप्रमादस्तथा चाशयशुद्धिः चित्तवैमल्यं, ततो हितमिदमिति पालयितव्यं प्रयत्नेनेति ॥३१९॥
व्याख्यातं सातिचारं द्वितीयं शिक्षापदमधुना तृतीयमुच्यते
-
आहारपोसहो खलु सरीरसक्कारपोसहो चेव । बंभव्वावारेसु य तइयं सिक्खावयं नाम ॥३२१॥
(छाया- आहारपौषधः खलु शरीरसत्कारपौषधश्चैव । ब्रह्माव्यापारयोश्च तृतीयं शिक्षापदं नाम ॥ ३२१॥)
वृत्तिः - आहारपौषधः खलु शरीरसत्कारपौषधश्चैव ब्रह्माव्यापारयोश्चेति ब्रह्मचर्यपौषधोऽव्यापारपौषधश्चेति । इह पौषधशब्दः रूढ्या पर्वसु वर्तते । पर्वाणि चाष्टम्यादितिथयः पूरणात्पर्व धर्मोपचयहेतुत्वादिति । तत्राहारः प्रतीतः तद्विषयस्तन्निमित्तो वा पौषधः आहारपौषधः आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पर्वेति भावना । एवं शरीरसत्कारपौषधः । ब्रह्मचर्यपौषधः अत्र चरणीयं चर्यं अतो यदित्यस्मादधिकारात् गदमदचरयमश्चानुपसर्गइति यत् ब्रह्म कुशलानुष्ठानं, यथोक्तम् ब्रह्म वेदो ब्रह्म तपो ब्रह्म ज्ञानं च शाश्वतम् । ब्रह्मवत् चर्यं चेति समासः शेषं पूर्ववत् । तथाव्यापारपौषधः तृतीयं शिक्षाव्रतं नामेति सूचनात्सूत्रमिति न्यायात्तृतीयं शिक्षापदव्रतमिति ।
एतदेव विशेषेणाह
देसे सव्वे य दुहा इक्किक्को इत्थ होइ नायव्वो । सामाइए विभासा देसे इयरम्मि नियमेण ॥३२२॥