________________
६००
द्वादश श्रावकव्रतानि पर्युपासे इति कृत्वा पश्चात् ईर्यापथिकी प्रतिक्रामति । पश्चात् आलोचयित्वा वन्दते आचार्यादीन् यथारत्नाधिकतया पुनरपि गुरुं वन्दित्वा प्रतिलिख्य निविष्टः पृच्छति पठति वा। एवं चैत्येषु अपि । यदा स्वगृहे पौषधशालायां वा तत्र नवरं गमनं नास्ति । य ऋद्धिप्राप्तः स सर्वा एति तेन जनस्य आदरो भवति आदृताश्च साधवः सुपुरुषपरिग्रहेण । यदि स कृतसामायिक एति तदा अश्व-हस्त्यादिजनेन च अधिकरणं वर्धते तदा न करोति । कृतसामायिकेन च पादैरागन्तव्यं तेन न करोति । आगतः साधुसमीपे करोति । यदि स श्रावकस्ततो न कोऽपि उत्तिष्ठति । अथ यथाभद्रको यतिपूजा कृता भवतु इति भणन्ति तदा पूर्वरचितं आसनं क्रियते । आचार्या उत्थिताः च तिष्ठन्ति तत्र उत्तिष्ठति अनुत्तिष्ठति दोषा विभाषितव्याः । पश्चात् स ऋद्धिप्राप्तः सामायिकं करोति अनेन विधिना करोमि भगवन् ! सामायिकं सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावत् नियमं पर्युपासे इति । एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति । स च किल सामायिकं कुर्वन् मुकुटमपनयति कुण्डलानि नाममुद्रां पुष्पताम्बूलं प्रावारकादि वा व्युत्सृजति । एष विधि: सामायिकस्य ।) उक्तं सातिचारं प्रथमं शिक्षापदमधुना द्वितीयमाह -
दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु ।
परिमाणकरणमेयं बीयं सिक्खावयं भणियं ॥३१८॥ (छाया- दिग्व्रतगृहीतस्य दिक्परिमाणस्य इह प्रतिदिनं यदेव ।
परिमाणकरणमेतद् द्वितीयं शिक्षापदं भणितम् ॥३१८॥) वृत्तिः - दिग्व्रतं प्राग्निरूपितस्वरूपं तद्गृहीतस्य दिक्परिमाणस्य योजनशतादेर्दीर्घकालिकस्य इह लोके प्रतिदिनं यदेव परिमाणकरणमेतावदेव गन्तव्यं न परत इत्येतद्द्वितीयं शिक्षापदं भणितमिह प्रवचने इति । प्रतिदिवसग्रहणं प्रतिप्रहराद्युपलक्षणं प्रतिप्रहरं प्रतिघटिकमिति ॥३१८॥
देसावगासियं नाम सप्पविसनायओऽपमायाअ ।
आसयसुद्धीइ हियं पालेयव्वं पयत्तेणं ॥३१९॥ (छाया- देशावकाशिकं नाम सर्पविषज्ञातात् अप्रमादात् ।
आशयशुद्ध्या हितं पालयितव्यं प्रयत्नेन ॥३१९॥) वृत्तिः - दिग्व्रतगृहीतदिक्परिमाणैकदेशो देशस्तस्मिन्नवकाशो गमनादिचेष्टास्थानं तेन