________________
द्वादश श्रावकव्रतानि
५९७
परिमाणमूर्ध्वदिग्व्रतमेतावती दिगूर्ध्वं पर्वताद्यारोहणादवगाहनीया न परत इति । एवम्भूतमधोदिक्परिमाणं अधोदिग्व्रतं एतावत्यधोदिक् इन्द्रकूपाद्यवतरणादवगाहनीया न परत इति । एवम्भूतं तिर्यग्दिक्परिमाणकरणं तिर्यग्दिग्व्रतं एतावती दिक्पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवमात्मकं एतदित्थं त्रिधा दिक्षु परिमाणकरणं इह प्रवचने प्रथममाद्यं सूत्रक्रमप्रामाण्यात् गुणाय व्रतं गुणव्रतं इत्यस्मिन् हि सत्यवगृहीतक्षेत्राद्बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः श्रावकधर्म इति श्रावकधर्मविषयमेव केन भणितमिति आह वीरेण ।
'विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥' ॥२८०॥ उक्तं सातिचारं प्रथमं गुणव्रतं अधुना द्वितीयमुच्यते
उवभोगपरीभोगे बीयं परिमाणकरणमो नेयं । अणियमियवाविदोसा न भवंति कयम्मि गुणभावो ॥ २८४॥
(छाया - उपभोगपरिभोगयोः द्वितीयं परिमाणकरणं विज्ञेयम् । अनियमितव्यापिदोषाः न भवन्ति कृते गुणभावः ॥ २८४ ॥ )
वृत्तिः - उपभोगपरिभोगयोरिति उपभोगपरिभोगविषये यत्परिमाणकरणं तदेव द्वितीयं गुणव्रतं विज्ञेयमिति पदघटना पदार्थस्तु उपभुज्यत इत्युपभोगः अशनादिरुपशब्दस्य सकृदर्थत्वात्सकृद्भुज्यत इत्यर्थ परिभुज्यत इति परिभोगो वस्त्रादिः पुनः पुनः भुज्यत इति भावः परिशब्दस्याभ्यावृत्त्यर्थत्वादयं चात्मक्रियारूपोऽपि भावतो विषये उपचरितो विषयविषयिणोरभेदोपचारादन्तर्भोगो वा उपभोगः उपशब्दस्यान्तर्वचनत्वात् बहिर्भोगो वा परिभोगः परिशब्दस्य बहिर्वाचकत्वादेतत्परिमाणकरणं एतावदिदं भोक्तव्यमुपभोक्तव्यं वा अतोऽन्यन्नेत्येवंरूपम् । अस्मिन् कृते गुणमाह अनियमिते असङ्कल्पिते ये व्यापिनस्तद्विषयं व्याप्तुं शीला दोषास्ते न भवन्ति कृतेऽस्मिंस्तद्विरतेरिति गुणभावोऽयमत्र गुण इति ॥ २८४॥ उक्तं सातिचारं द्वितीयं गुणव्रतं साम्प्रतं तृतीयमाह
विरई अणत्थदंडे तच्चं स चउव्विहो अवज्झाणो । पमायायरियर्हिसप्पयाणपावोवएसे य ॥ २८९ ॥
(छाया - विरतिरनर्थदण्डे तृतीयं स चतुर्विधः अपध्यानम् । प्रमादाचरितः हिंसाप्रदानं पापोपदेशश्च ॥ २८९ ॥