________________
५९६
द्वादश श्रावकव्रतानि सचित्ताचित्तेसुं इच्छापरिणाममो य पंचमयं ।
भणियं अणुव्वयं खलु समासओ शंतनाणिहि ॥२७५॥ (छाया- सचित्ताचित्तेषु इच्छापरिमाणं च पञ्चमकम् ।
भणितमणुव्रतं खलु समासतः अनन्तज्ञानिभिः ॥२७५॥) वृत्तिः - सचित्ताचित्तेषु द्विपदादिहिरण्यादिषु इच्छायाः परिमाणमिच्छापरिमाणं एतावतामूर्ध्वमग्रहणमित्यर्थः । एतत्पञ्चममुपन्यासक्रमप्रामाण्याद्भणितमणुव्रतं खलु समासतः सामान्येनानन्तज्ञानिभिस्तीर्थकरैरिति ॥२७५॥
भेएण खित्तवत्थूहिरण्णमाइसु होइ नायव्वं ।
दुपयाईसु य सम्मं वज्जणमेयस्स पुव्वुत्तं ॥२७६॥ (छाया- भेदेन क्षेत्रवास्तुहिरण्यादिषु भवति ज्ञातव्यम् ।
द्विपदादिषु च सम्यक् वर्जनमेतस्य पूर्वोक्तम् ॥२७६॥) वृत्तिः - भेदेन विशेषेण क्षेत्रवास्तुहिरण्यादिषु भवति ज्ञातव्यं, किं इच्छापरिमाणमिति वर्तते, तत्र क्षेत्र सेतु केतु च उभयं च, वास्त्वगारं खातमुच्छ्रितं खातोछ्रितं च, हिरण्यं रजतमघटितमादिशब्दाद्धनधान्यादिपरिग्रहः एतदचित्तविषयं द्विपदादिषु चेत्येतत्सचित्तविषयं द्विपदचतुःपदापदादिषु दासीहस्तिवृक्षादिषु सम्यक् प्रवचनोक्तेन विधिना वर्जनमेतस्य पञ्चमाणुव्रतविषयस्य पूर्वोक्तं 'उपयुक्तो गुरुमूले' इत्यादिना ग्रन्थेनेति ॥२७६॥
उक्तान्यणुव्रतानि साम्प्रतमेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते । तानि पुनस्त्रीणि भवन्ति । तद्यथा । दिग्व्रतमुपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति । तत्राद्यगुणव्रतस्वरूपाभिधित्सयाह -
उड्डमहे तिरियं पि य दिसासु परिमाणकरणमिह पढमं ।
भणियं गुणव्वयं खलु सावगधम्मम्मि वीरेण ॥२८०॥ (छाया- ऊर्ध्वमधस्तिर्यगपि च दिक्षु परिमाणकरणमिह प्रथमम् ।
___ भणितं गुणव्रतं खलु श्रावकधर्मे वीरेण ॥२८०॥) वृत्तिः - ऊर्ध्वमधस्तिर्यक् किं दिक्षु परिमाणमिति । दिशो ह्यनेकप्रकारा वर्णिताः शास्त्रे । तत्र सूर्योपलक्षिता पूर्वा शेषाश्च दक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः । तत्रोर्ध्वदिक्