________________
द्वादश श्रावकव्रतानि
५९३
॥१०६॥
थूलगपाणिवहस्साविरई, दुविहो असो वहो होइ।
संकप्पारंभेहि य, वज्जइ संकप्पओ विहिणा ॥१०७॥ (छाया- स्थूरप्राणवधस्य विरतिः, द्विविधश्चासौ वधो भवति ।
__ सङ्कल्पारम्भाभ्यां च, वर्जयति सङ्कल्पतः विधिना ॥१०७॥) वृत्तिः - स्थूरकप्राणवधस्य विरतिः, स्थूरा एव स्थूरका द्वीन्द्रियादयस्तेषां प्राणाः शरीरेन्द्रियोच्छासायुर्बललक्षणास्तेषां वधः जिघांसनं तस्य विरतिनिवृत्तिरित्यर्थः, द्विविधश्चासौ वधो भवति, कथं ? सङ्कल्पारम्भाभ्यां, तत्र व्यापादनाभिसन्धिः सङ्कल्पः, कृष्यादिकस्त्वारम्भः, तत्र वर्जयति सङ्कल्पतः, परिहरति असौ श्रावकः प्राणवधं सङ्कल्पेन, न त्वारम्भतोऽपि, तत्र नियमात् प्रवृत्तेः, विधिना प्रवचनोक्तेन वर्जयति न तु यथाकथञ्चिदिति, स चायं विधिः ॥१०७॥
उवउत्तो गुरुमूले संविग्गो इत्तरं व इयरं वा ।
अणुदियहमणुसरंतो पालेइ विसुद्धपरिणामो ॥१०८॥ (छाया- उपयुक्तो गुरुमूले संविग्नो इत्वरं इतरद्वा ।
___अनुदिवसमनुस्मरन् पालयति विशुद्धपरिणामः ॥१०८॥)
वृत्तिः - उपयुक्तोऽन्तःकरणेन समाहितो, गुरुमूले आचार्यसन्निधौ, संविग्नो मोक्षसुखाभिलाषी न तु ऋद्धिकाम इत्वरं चातुर्मासादिकालावधिना, इतद्धा यावत्कथिकमेव, प्राणवधं वर्जयतीति वर्तते, एवं वर्जयित्वानुदिवसमनुस्मरन्, स्मृतिमूलो धर्म इति कृत्वा, पालयति विशुद्धपरिणामः, न पुनस्तत्र चेतसापि प्रवर्तत इति ॥१०८॥ अधुना द्वितीयमुच्यते -
थूलमुसावायस्स उ विरई दुच्चं स पंचहा होइ ।
कन्नागोभुआलियनासहरणकूडसक्खिज्जे ॥२६०॥ (छाया- स्थूलमृषावादस्य तु विरतिः द्वितीयं स पञ्चधा भवति ।
कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि ॥२६०॥) वृत्तिः - स्थूलमृषावादस्य तु विरतिद्वितीयमणुव्रतमिति गम्यते । मृषावादो हि द्विविधः स्थूलः सूक्ष्मश्च । तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो