________________
५९४
द्वादश श्रावकव्रतानि विपरीतस्त्वितरो न च तेनेहाधिकारः श्रावकधर्माधिकारत्वात्स्थूलस्यैव प्रक्रान्तत्वात् । तथा चाह । स पञ्चधा भवति स स्थूलो मृषावादः पञ्चप्रकारो भवति । कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि । अनृतशब्द: पदत्रये प्रत्येकमभिसम्बध्यते । तद्यथा । कन्यानृतमित्यादि तत्र कन्याविषयमनृतं कन्यानृतं अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति विपर्ययो वा । एवं गवानृतं अल्पक्षीरामेव बहुक्षीरां वक्ति विपर्ययो वा । एवं भूम्यनृतं परसत्कामेवात्मसत्कां वक्ति व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारेणैव कस्यचिद्रागाद्यभिभूतो वक्ति अस्येयमाभवतीति । न्यस्यते निक्षिप्यत इति न्यासो रूपकाद्यर्पणं तस्यापहरणं न्यासापहारः अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति उच्यते अपलपतो मृषावाद इति । कूटसाक्षिकं उत्कोचमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्तीति ॥२६०॥
वज्जणमिह पुवुत्तं आह कुमाराइगोयरो कहणु ।
एयग्गहणाउ च्चिय गहिओ नणु सो वि टुव्वो ॥२६१॥ (छाया- वर्जनमिह पूर्वोक्तमाह कुमारादिगोचरः कथं नु ।
एतद्ग्रहणादेव च गृहीतो ननु सोऽपि द्रष्टव्यः ॥२६१॥) वृत्तिः - वर्जनमिह मृषावादे पूर्वोक्तं 'उवउत्तो गुरुमूले' (१०८) इत्यादिना ग्रन्थेन । आह परः कुमारादिगोचरः कथं नु अकुमारं कुमारं ब्रुवतः आदिशब्दाद्विविधवाद्यनृत्तपरिग्रहः अतिदुष्टविवक्षासमुद्भवोऽप्येष भवति न तु सूत्रे उपात्तः तदेतत्कथं ? आचार्य आह एतद्ग्रहणादेव च कन्यानृतादिग्रहणादेव च ननु ग्रहीतोऽसावपि कुमारादिगोचरो मृषावादो द्रष्टव्यः उपलक्षणत्वादिति ॥२६१॥ उक्तं द्वितीयाणुव्रतं साम्प्रतं तृतीयमाह -
थूलमदत्तादाणे विई तच्चं दुहा य तं भणियं ।
सचित्ताचित्तगयं समासओ वीयरागेहिं ॥२६५॥ (छाया- स्थूलादत्तादाने विरतिः तृतीयं द्विधा च तद् भणितम् ।
सचित्ताचित्तगतं समासतः वीतरागैः ॥२६५॥) वृत्तिः - इहादत्तादानं द्विधा स्थूलं सूक्ष्मं च । तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं । विपरीतमितरत् । तत्र स्थूलादत्तादानविषया विरतिनिवृत्तिस्तृतीयमणुव्रतमिति गम्यते । द्विधा च तददत्तादानं भणितं समासतः सझेपेण वीतरागैरर्हद्भिरिति योगः सचित्ताचित्तगतमिति सचित्तादत्तादानं अचित्तादत्तादानं