SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ५९२ द्वादश श्रावकव्रतानि उपभोगपरिभोगपरिमाणव्रतं, ८ अनर्थदण्डविरमणव्रतं, ९ सामायिकव्रतं, १० देशावकाशिकव्रतं, ११ पौषधव्रतं १२ अतिथिसंविभागव्रतञ्च । यदुक्तं वाचकवर्योमास्वातिप्रणीतश्रावकप्रज्ञप्तौ हरिभद्रसूरिविरचिततद्वृत्तौ च - 'निरूपितः श्रावकशब्दार्थः । साम्प्रतं द्वादशविधं श्रावकधर्ममुपन्यस्यन्नाह - पंचेव अणुव्वयाइं गुणव्वाइं च हुंति तिन्नेव । सिक्खावयाई चउरो सावगधम्मो दुवालसहा ॥६॥ (छाया- पञ्चैवाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव । शिक्षाव्रतानि चत्वारि श्रावकधर्मो द्वादशधा ॥६॥) वृत्तिः - पञ्चेति सङ्ख्या । एवकारोऽवधारणे । पञ्चैव न चत्वारि षड् वा । अणूनि च तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षया चाणुत्वमिति स्थूरप्राणातिपातादिविनिवृत्तिरूपाणीत्यर्थः । गुणव्रतानि च भवन्ति त्रीण्येव न न्यूनाधिकानि वा । अणुव्रतानामेवोत्तरगुणभूतानि व्रतानि गुणव्रतानि दिग्व्रतभोगोपभोगपरिमाणकरणानर्थदण्डविरतिलक्षणानि एतानि च भवन्ति त्रीण्येव । शिक्षापदानि च शिक्षाव्रतानि वा तत्र शिक्षा अभ्यासः स च चारित्रनिबन्धनविशिष्टक्रियाकलापविषयस्तस्य पदानि स्थानानि तद्विषयाणि वा व्रतानि शिक्षाव्रतानि एतानि च चत्वारि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि । एवं श्रावकधर्मो द्वादशधा द्वादशप्रकार इति गाथासमासार्थः । अवयवार्थं तु महता प्रपञ्चेन ग्रन्थकार एव वक्ष्यति ॥६॥ साम्प्रतं द्वादशप्रकारं श्रावकधर्ममुपन्यस्यता यदुक्तं पञ्चाणुव्रतादीनीति तान्यभिधित्सुराह पंच उ अणुव्वयाइं थूलगपाणिवहविरमणाईणि । तत्थ पढमं इमं खलु पन्नत्तं वीयरागेहि ॥१०६॥ (छाया- पञ्च त्वणुव्रतानि स्थूलप्राणवधविरमणादीनि । __तत्र प्रथमं इदं खलु प्रज्ञप्तं वीतरागैः ॥१०६॥) वृत्तिः - पञ्च त्वणुव्रतानि, तुरेवकारार्थः, पञ्चैव, अणुत्वमेषां सर्वविरतिलक्षणमहाव्रतापेक्षया, तथा चाह, स्थूरप्राणवधविरमणादीनि स्थूरकप्राणिप्राणवधविरमणमादिशब्दात्स्थूरमृषावादादिपरिग्रहः, तत्र तेष्वणुव्रतेषु प्रथममाद्यमिदं खल्विति इदमेव वक्ष्यमाणलक्षणं, शेषाणामस्यैव वस्तुत उत्तरगुणत्वात्, प्रज्ञप्तं वीतरागैः प्ररूपितमर्हद्भिरिति
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy