SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ एकादश श्राद्धप्रतिमाः ५९१ नैव जानाति ततो बूते-नैवाहं किमपि जानामि-स्मरामीति, एतावन्मुक्त्वा नान्यत्किमपि तस्य गृहकृत्यं कर्तुं कल्पत इति तात्पर्यम् ॥९९२॥ अथैकादशी प्रतिमामाह - 'खुरे'त्यादि, क्षुरेण मुण्डो-मुण्डितः क्षुरमुण्डो लोचेन वाहस्तलुञ्चनेन मुण्ड: सन् रजोहरणं पतद्ग्रहं च उपलक्षणमेतत् सर्वमपि साधूपकरणं गृहीत्वा 'समणहूओ'त्ति श्रमणो-निर्ग्रन्थस्तद्वद् यस्तदनुष्ठानकरणात्स श्रमणभूतः साधुकल्प इत्यर्थः विहरेत्-गृहान्निर्गत्य निखिलसाधुसामाचारीसमाचरणचतुरः समितिगुप्त्यादिकं सम्यगनुपालयन् भिक्षार्थं गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां दत्तेति भाषमाणः, कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणो ग्रामनगरादिष्वनगार इव मासकल्पादिना विचरेदेकादश मासान् यावदिति । एतच्चोत्कृष्टतः कालमानमुक्तं, जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमन्तर्मुहूर्तादिमाना एव, तच्च मरणे वा प्रव्रजितत्वे वा सम्भवति, नान्यथेति ॥९९३॥ तथा 'ममे 'त्यादि, ममेत्यस्य करणं ममकारस्तस्मिन्नव्यवच्छिन्ने-अनपगते सति, अनेन स्वजनदर्शनार्थित्वकारणमुक्तं, सञ्ज्ञाता:-स्वजनास्तेषां पल्ली-सन्निवेशस्तां सज्ञातपल्ली व्रजति-गच्छति द्रष्टुं-विलोकयितुं सज्ञातानिति गम्यते, जे इति पादपूरणे, तत्रापिसञ्ज्ञातपल्ल्यामपि, आस्तामन्यत्र, साधुरिव-संयत इव वर्तते, न पुनः स्वजनोपरोधेन गृहचिन्तादिकं कुर्यात्, यथा च साधुः प्रासुकमेषणीयं च गृह्णाति तथा सोऽपि श्रमणभूतप्रतिमाप्रतिपन्नः प्रासुकमेव-प्रगतासुकमेवाचेतनमेवोपलक्षणत्वादस्यैषणीयं चाहारंअशनादिकं गृह्णातीति, ज्ञातयो हि स्नेहादनेषणीयं भक्तादि कुर्वन्ति आग्रहेण च तद् ग्राहयितुमिच्छन्ति अनुवर्तनीयाश्च ते प्रायो भवन्तीति तद्ग्रहणं सम्भाव्यते तथापि तदसौ न गृह्णातीति भावः ॥ इह चोत्तरासु सप्तसु प्रतिमास्वावश्यकचूर्त्या प्रकारान्तरमपि दृश्यते, तथाहि - "राइभत्तपरिन्नाएत्ति पञ्चमी, सचित्ताहारपरिन्नाएत्ति षष्ठी, दिया ब्रह्मचारी, राओ परिमाणकडेत्ति सप्तमी, दियावि राओवि बंभयारी असिणाणए वोसट्ठकेसमंसुरोमनहेत्ति अष्टमी, सारंभपरिन्नाएत्ति नवमी, पेसारम्भपरिन्नाएत्ति दशमी, उठ्ठिन्नविवज्जए समणभूएत्ति एकादशी" ति १५३ ॥९९४॥' व्रतानि - पापनिवृत्तिरूपाणि । तानि चाऽत्र प्रक्रमात्श्रावकव्रतानि ज्ञेयानि, तेषामेव द्वादशविधत्वात् । श्रावकव्रतानि द्वादशप्रकाराणि । तद्यथा - १ स्थूलप्राणातिपातविरमणव्रतं, २ स्थूलमृषावादविरमणव्रतं, ३ स्थूलादत्तादानविरमणव्रतं, ६ स्वदारसन्तोषपरदारगमनविरमणव्रतं, ५ स्थूलपरिग्रहविरमणव्रतं, ६ दिक्परिमाणवतं, ७
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy