________________
५९०
एकादश श्राद्धप्रतिमाः एव मैथुनं प्रतिषिद्धं, रात्रौ पुनरप्रतिषिद्धमासीत्, अस्यां तु दिवापि रजन्यामपि च सर्वथापि मैथुनप्रतिषेधः, अत एवात्र चित्तविप्लुतिविधायिनां कामकथादीनामपि प्रतिषेधः कृत इति ॥९८८॥
अथ सप्तमी प्रतिमामाह - 'सत्तमी'त्यादि, सप्तम्यां-सचित्ताहारवर्जनप्रतिमायां सप्त मासान् यावत् सचित्तं-सचेतनमाहारं-अशनपानखादिमस्वादिमस्वरूपं नैवाहारयतिअभ्यवहरति, तथा यद्यदधस्तनीनां-प्राक्तनीनां प्रतिमानामनुष्ठानं तत्तत्सर्वमपि-निरवशेषमुपरितनीनां-अग्रेतनप्रतिमानामवसेयं, एतच्च प्रागुक्तमपि विस्मरणशीलविनेयजनानुग्रहाय पुनरुपन्यस्तम्, एवमन्यत्रापि ॥९८९॥
__ अथाष्टमीनवम्यौ प्रतिमे प्रतिपादयितुमाह - 'आरंभे'त्यादि, अष्टमी-स्वयमारम्भवर्जनप्रतिमा भवति यस्यामष्टौ मासान् यावदारम्भस्य-पृथिव्याधुपमर्दनलक्षणस्य स्वयं आत्मना करणं-विधानं वर्जयति-परिहरति, स्वयमिति वचनाच्चैतदापन्नं-वृत्तिनिमित्तमारम्भेषु तथाविधतीव्रपरिणामरहितः परैः कर्मकरादिभिः सावद्यमपि व्यापारं कारयतीति, ननु स्वयमप्रवर्तमानस्याप्यारम्भेषु प्रेष्यान् व्यापारयतः प्राणिहिंसा तदवस्थैव, सत्यं, किन्तु या सर्वथैव स्वयमारम्भाणां करणतः परैश्च कारणत उभयजन्या हिंसा सा स्वयमकरणतस्तावत्परिहतैव, यतः स्वल्पोऽपि प्रारम्भः परिहियमाणः प्रोज्जृम्भमाणमहाव्याधेः स्तोकतरस्तोकतमक्षय इव हित एव भवति, एषा पुनर्नवमी-प्रेष्यारम्भवर्जनप्रतिमा भवति, यस्यां नव मासान् यावत् पुत्रभ्रातृप्रभृतिषु न्यस्तसमस्तकुटुम्बादिकार्यभारतया धनधान्यादिपरिग्रहेष्वल्पाभिष्वङ्गतया च प्रेष्यैरपि-कर्मकरादिभिरपि आस्तां स्वयं आरम्भान्-सपापव्यापारान् महतः कृष्यादीनिति भावः, आसनदापनादिव्यापाराणां पुनरतिलघूनामनिषेध एव, तथाविधकर्मबन्धहेतुत्वाभावेनारम्भत्वानुपपत्तेः ॥९९०॥
अथ दशमी प्रतिमामाह - ‘दशमे 'त्यादि, दशमी पुनरुद्दिष्टभक्तवर्जनप्रतिमा दश मासान् यावद्भवति, यस्यामुद्दिष्टं-उद्देशस्तेन कृतं-विहितमुद्दिष्टकृतं, तमेव श्रावकमुद्दिश्य संस्कृतमित्यर्थः, एवंस्वरूपं भक्तमपि-ओदनादिकं नैव भुञ्जीत आस्तां तावदितरसावद्यव्यापारकरणमित्यपिशब्दार्थः, 'सो होइ'त्ति स पुनर्दशमप्रतिमाप्रतिपत्ता कश्चित् क्षुरमुण्ड:क्षुरमुण्डितमस्तको भवति 'सिहलिं'ति शिखां वा शिरसि कोऽपि धारयतीति ॥९९१॥
तथा – 'जमि'त्यादि, नवरं-केवलं स श्रावकस्तत्र-तस्यां दशमप्रतिमायां स्थितो यन्निहितं-भूम्यादौ निक्षिप्तमर्थजातं-द्रव्यं सुवर्णादिकं तत्पृच्छतां सुतानां-पुत्राणां उपलक्षणत्वाभ्रात्रादीनां च यदि जानाति ततः कथयति, अकथने वृत्तिच्छेदप्राप्तेः, अथ