SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ एकादश श्राद्धप्रतिमाः ५८९ विच्छेदप्रभृतीन् षष्टिसङ्ख्यान् अतिचारान् द्वादशव्रतविषयान् प्रयत्नतो-महता यत्नेन वर्जयति-परिहरतीति ॥९८३-९८४॥ अथ प्रतिमाप्रतिमास्वरूपमाह - 'सम्मे'त्यादि, 'सम्म'त्ति सम्यक्त्वं मकारोऽलाक्षणिकः अणुव्रतगुणव्रतशिक्षाव्रतानि च यस्य विद्यन्ते स तद्वान्, पूर्वोक्तप्रतिमाचतुष्टयान्वित इत्यर्थः, स्थिर:-अविचलसत्त्वः इतरो हि तद्विराधको भवति, यतोऽस्यां प्रतिमायां निशि चतुष्पथादौ कायोत्सर्गः क्रियते तत्र चोपसर्गाः प्रभूताः सम्भवन्तीति, ज्ञानी च - प्रतिमाकल्पादिपरिज्ञानप्रवणः, अजानानो हि सर्वत्राप्ययोग्यः किं पुनरेतत्प्रतिमाप्रतिपत्ताविति, अष्टमीचतुर्दश्योरुपलक्षणत्वादष्टमीचतुर्दश्यमावास्यापौर्णमासीरूपेषु पौषधदिनेष्वपि द्रष्टव्यं प्रतिमां कायोत्सर्ग 'ठाइ'त्ति तिष्ठति धातूनामनेकार्थत्वात्करोतीत्यर्थः, किम्प्रमाणामित्याह-एका रात्रिः परिमाणमस्या इत्येकरात्रिकी-सार्वरात्रिकी तां यस्तस्य प्रतिमा भवतीति शेषः ॥९८५॥ शेषदिनेषु यादृशोऽसौ भवति तदर्शयितुमाह - 'असिणाणे'त्यादि, अस्नान:स्नानपरिवर्जकः, विकटे-प्रकटे प्रकाशे दिवा न रात्रावित्यर्थः दिवापि वा प्रकाशदेशे भुङ्क्तेअशनाद्यभ्यवहरतीति विकटभोजी, पूर्वं किल रात्रिभोजनेऽनियम आसीत् तदर्थमिदमुक्तं, 'मउलियडो 'त्ति अबद्धपरिधानकच्छ इत्यर्थः, तथा दिवसे-दिवा ब्रह्म चरतीत्येवंशीलो दिवसब्रह्मचारी, रत्तिति रात्रौ किमत आह-परिमाणं-स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृतः, कदेत्याह-प्रतिमावर्जेषु-कायोत्सर्गरहितेष्वपर्वस्त्वित्यर्थः दिवसेषुदिनेष्विति ॥९८६॥ अथ कायोत्सर्गस्थितो यच्चिन्तयति तदाह -'झायई 'त्यादि, ध्यायति-चिन्तयति प्रतिमायां कायोत्सर्गे स्थितः-अवस्थितस्त्रिलोकपूज्यान्-त्रिभुवनाभ्यर्चनीयान् जिनान्तीर्थकृतो जितकषायान्-निरस्तसमस्तद्वेषादिदोषान् अन्यद्वा जिनापेक्षया निजदोषप्रत्यनीकं स्वकीयकामक्रोधप्रमुखदूषणप्रतिपक्षभूतं कामनिन्दाक्षान्तिप्रभृतिकं ध्यायति, कियत्प्रमाणेयं पञ्चमी प्रतिमेत्याह-पञ्च मासान् यावदिति ॥९८७।। अथ षष्ठी प्रतिमामाह - "सिंगारे'त्यादि, शृङ्गारकथा-कामकथा तथा विभूषायाःस्नानविलेपनधूपप्रभृतिकाया उत्कर्षः-प्रकर्षः ततः समाहाराद्वन्द्वः तद्वर्जयन्-परिहरन्, उत्कर्षग्रहणाच्छरीरमात्रानुगां विभूषां विदधात्यपीति, तथा स्त्रिया-योषिता सह रहसि कथांप्रणयवार्ता वर्जयन्, किमित्याह-वर्जयति अब्रह्म-मैथुनमेकं 'तओ य'त्ति तकः-असौ प्रतिमाप्रतिपत्ता षष्ठ्यां-अब्रह्मवर्जनप्रतिमायां षण्मासान् यावत्, पूर्वस्यां हि प्रतिमायां दिवस
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy