________________
५८८
एकादश श्राद्धप्रतिमाः क्रिया-अनुष्ठानविशेषरूपाः कर्तव्या एव, तुशब्द एवकारार्थः, इदमत्र तात्पर्यम्-द्वितीयायां प्रतिमायां प्रथमप्रतिमोक्तमनुष्ठानं निरवशेषमपि कर्तव्यं, तृतीयायां तु प्रतिमायां प्रथमद्वितीयप्रतिमाद्वयोक्तमप्यनुष्ठानं विधेयं, एवं यावदेकादश्यां प्रतिमायां पूर्वप्रतिमादशकोक्तं सर्वमप्यनुष्ठानं कार्यमिति ॥९८१॥
अथ दर्शनप्रतिमास्वरूपनिरूपणायाह - 'पसमे'त्यादि, सम्यग्दर्शनं-सम्यक्त्वं प्रथमा दर्शनप्रतिमा भवतीति सम्बन्धः, कथम्भूतं सम्यग्दर्शनमित्याह-प्रशमादिगुणविशिष्टंप्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः पञ्चभिर्गुणैर्विशिष्टं-अन्वितं, तथा कुग्रहश्च-तत्त्वं प्रति शास्त्रबाधितत्वेन कुत्सितोऽभिनिवेशः शङ्कादयश्च-शङ्काकाङ्क्षाविचिकित्सामिथ्यादृष्टिप्रशंसातत्संस्तवरूपाः पञ्च सम्यक्त्वातीचाराः कुग्रहशङ्कादयस्त एव शल्यते-अनेकार्थत्वा
बाध्यते जन्तुरेभिरिति शल्यानि तैः परिहीनं-रहितं, अत एव अनघ-निर्दोषं, अयमत्र भावार्थ:-सम्यग्दर्शनस्य कुग्रहशङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः सा दर्शनप्रतिमेति, सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् केवलमिह शङ्कादिदोषराजाभियोगाद्याकारषट्कवर्जितत्वेन यथावत्सम्यग्दर्शनाचारविशेषपरिपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथा उपासकदशासु एकमासं प्रथमायाः प्रतिमायाः पालनेन द्वौ मासौ द्वितीयायाः प्रतिमायाः पालनेन एवं यावदेकादश मासानेकादश्याः पालनेन पञ्च सार्धानि वर्षाण्यर्थतः प्रतिपादितानीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात्, एवं दर्शन(व्रत)प्रतिमादिष्वपि यथायोगं भावना कार्या ॥९८२॥
अथ गाथाद्वयेन व्रतसामायिकपौषधप्रतिमात्रयमाह - 'बीये 'त्यादि, अणुव्रतानिस्थूलप्राणातिपातविरमणादीनि उपलक्षणत्वाद् गुणव्रतानि शिक्षाव्रतानि च वधबन्धाद्यतिचाररहितानि निरपवादानि च धारयतः सम्यक्परिपालयतो द्वितीया व्रतप्रतिमा भवति, सूत्रे च प्रतिमाप्रतिमावतोरभेदोपचारादित्थं निर्देशः, तथा तृतीयायां-सामायिकप्रतिमायां सामायिकंसावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं-विहितं देशतो येन स सामायिककृतः, आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदत्वं, इदमुक्तं भवति-अप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं तृतीया प्रतिमेति, तथा चतुर्थी पौषधप्रतिमा यस्यां चतुर्दश्यष्टम्यादिषु दिवसेषु-चतुर्दश्यष्टम्यमावास्यापौर्णमासीषु पर्वतिथिषु चतुर्विधमप्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनरूपं पौषधं परिपूर्णं, न पुनरन्यतरेणापि प्रकारेण परिहीनं सम्यग् आगमोक्तविधिना स-प्रतिमाप्रतिपत्ता तुशब्दस्यावधारणार्थत्वादनुपालयत्येव-आसेवत एव, एतासु चतसृष्वपि व्रतादिषु प्रतिमासु बन्धादीन्-बन्धवधच्छ