________________
५८७
एकादश श्राद्धप्रतिमाः
दशमी दश मासान् पुनः उद्दिष्टकृतमपि भक्तं नापि भुञ्जीत । स भवति तु क्षुरमुण्डः शिखां वा धारयति कोऽपि ॥९९१॥ यत् निहितमर्थजातं पृच्छतां सुतानां नवरं स तत्र । यदि जानाति ततः कथयति अथ नैव ततो ब्रवीति नैव जानामि ॥९९२॥ क्षुरमुण्डो लोचेन वा रजोहरणं पतद्ग्रहं च गृहीत्वा । श्रमणो भूतो विहरति मासानेकादशोत्कृष्टान् ॥९९३॥ ममकारेऽव्यवच्छिन्ने व्रजति सज्ञातपल्लिं द्रष्टुं जे ।
तत्रापि साधुरिव यथा गृह्णाति प्रासुकं तु आहारम् ॥९९४॥) वृत्तिः - दर्शनं च - सम्यक्त्वं व्रतानि च-अणुव्रतादीनि सामायिकं च-सावधानवद्ययोगपरिवर्जनासेवनस्वरूपं पौषधं च-अष्टमीचतुर्दश्यादिपर्वदिनानुष्ठेयोऽनुष्ठानविशेषः प्रतिमा च-कायोत्सर्गः अब्रह्म च-अब्रह्मचर्यं सचित्तं च-सचेतनद्रव्यं इति समाहारद्वन्द्वः तत एतस्मिन् विषये प्रतिमेति प्रस्तावादवसेयं, अत्र च दर्शनादिषु पञ्चसु विधिद्वारेण प्रतिमाभिग्रहः अब्रह्मसचित्तयोस्तु प्रतिषेधमुखेनेति, तथा आरम्भश्च-स्वयं कृष्यादिकरणं प्रैषश्च-प्रेषणं परेषां पापकर्मसु व्यापारणं उद्दिष्टं च-तमेव श्रावकमुद्दिश्य सचेतनं सदचेतनीकृतं पक्वं वा यो वर्जयति-परिहरति स आरम्भप्रैषोद्दिष्टवर्जकः, प्रतिमेति प्रकृतमेव, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिमावतो निर्देशः कृतः, एवमुत्तरत्रापि, तथा श्रमणः-साधुः स इव यः स श्रमणभूतः, भूतशब्दस्योपमानार्थत्वात्, चः समुच्चये, आसां च दर्शनप्रतिमा व्रतप्रतिमेत्यादिरूपोऽभिलाप: कार्यः, एता एकादश श्राद्धानां-उपासकानां प्रतिमा:-प्रतिज्ञा अभिग्रहाः श्राद्धप्रतिमा इति ॥९८०॥
अथैतासामेव प्रतिमाणां प्रत्येकं स्वरूपं प्रतिपिपादयिषुः प्रथमं तावत् कालमानं सामान्यस्वरूपं चाह - 'जस्संखे'त्यादि, यत्सङ्ख्या यावत्सङ्ख्यामाना प्रथमद्वितीयादिकेत्यर्थः प्रतिमा तस्यां मासा अपि तत्सङ्ख्या:-तावत्प्रमाणा भवन्ति, अयमर्थः-प्रथमायां प्रतिमायामेको मास: कालमानं द्वितीयायां द्वौ मासौ तृतीयायां त्रयो मासा यावदेकादश्यां प्रतिमायामेकादश मासा इति, एतच्च कालमानं यद्यपि दशाश्रुतस्कन्धादिषु साक्षान्नोपलभ्यते तथाऽप्युपासकदशासु प्रतिमाकारिणामानन्दादिश्रमणोपासकानां सार्धवर्षपञ्चकलक्षणं प्रतिमैकादशप्रमाणं प्रतिपादितमस्ति, तच्च पूर्वोक्तयैव एकादिकयैकोत्तरया वृद्ध्या सङ्गच्छत इति, तथा उत्तरोत्तरास्वपि तासु प्रतिमासु क्रियमाणासु पूर्वपूर्वप्रतिमाप्रतिपादिताः सर्वा अपि