________________
५८६
एकादश श्राद्धप्रतिमाः ममकारेऽवोच्छिन्ने वच्चइ सन्नायपल्लि 8 जे।।
तत्थवि साहुव्व जहा गिण्हइ फासुं तु आहारं ॥९९४॥ (छाया- दर्शनं १ व्रतानि २ सामायिकं ३ पौषधं ४ प्रतिमा ५ अब्रह्म ६सचित्तं ७ ।
आरम्भः ८ प्रैषः ९ उद्दिष्टवर्जकः १० श्रमणभूतश्च ११ ॥९८०॥ यत्सङ्ख्या या प्रतिमा तत्सङ्ख्याः तस्यां भवन्ति मासा अपि । क्रियमाणासु अपि कार्यास्तु तासु पूर्वोक्तक्रियास्तु ॥९८१॥ प्रशमादिगुणविशिष्टं कुग्रहशङ्कादिशल्यपरिहीणम् । सम्यग्दर्शनमनघं दर्शनप्रतिमा भवति पढमा १ ॥९८२॥ द्वितीया अणुव्रतधारी २ कृतसामायिकश्च भवति तृतीयायाम् ३ । भवति चतुर्थी चतुर्दशीअष्टम्यादिषु दिवसेषु ॥९८३॥ पौषधं चतुर्विधमपि च प्रतिपूर्णं सम्यक् स तु अनुपालयति । बन्धादीन् अतिचारान् प्रयत्नतो वर्जयति इमासु ॥९८४॥ सम्यगणुव्रतगुणव्रतशिक्षाव्रतवान् स्थिरश्च ज्ञानी च । अष्टमीचतुर्दशीषु प्रतिमां तिष्ठति एकरात्रिकीम् ॥९८५॥ अस्नानं विकटभोजी कृतमुकुलिः दिवसब्रह्मचारी च । रात्रौ परिमाणकृतः प्रतिमावर्जेषु दिवसेषु ॥९८६॥ ध्यायति प्रतिमायां स्थितः त्रिलोकपूज्यान् जिनान् जितकषायान् । निजदोषप्रत्यनीकं अन्यं वा पञ्च यावत् मासान् ॥९८७।। शृङ्गारकथाविभूषोत्कर्षं स्त्रीकथां च वर्जयन् । वर्जयति अब्रह्म एकान्ततश्च षष्ठ्यां षण्मासान् ॥९८८॥ सप्तम्यां सप्त तु मासान् नापि आहारयति सचित्तमाहारम् । यत् यत् अधस्तनीनां तत् तत् चरमाणां सर्वमपि ॥९८९॥ आरम्भस्वयंकरणं अष्टमिका अष्टौ मासान् वर्जयति ।। नवमी नव मासान् पुनः प्रेष्यारम्भानपि वर्जयति ॥९९०॥