________________
द्विविधा शिक्षा
गोचरा द्वितीयाऽनुष्ठानविषयेति ॥ १ ॥
वृत्तिः - अस्य यतेः शिक्ष्यतेऽनया शिक्षा वक्ष्यमाणस्वरूपा ग्रहणाऽऽसेवनगता ग्रहणं च ज्ञानोपार्जनम् आसेवनं च स्थानाद्यनुष्ठानं ग्रहणाssसेवने तद्गता तद्विषयाद्विविधाद्विप्रकारा मुणितव्या बोद्धव्या । एनयोर्विषयमाह एका तावत् प्रथमा ग्रहणशिक्षा सूत्रार्थगोचरा सूत्रं च गणधरादिस्थविरसन्दृब्धम् अर्थश्च तदभिधेयः सूत्रार्थो तद्गोचरा तद्विषया । द्वितीया क्रमापेक्षया पुनः अनुष्ठानविषया प्रतिलेखनाद्यासेवनविषया इतिः समाप्तौ ॥१॥
शिक्षाद्विकप्राधान्यं प्रदर्श्याऽथ ग्रहणशिक्षामाहात्म्यं विशेषत आह
गिves विहिणा सुत्तं भावेणं परममंतरूव त्ति । जोगो वि बीयमहुरोदजोगतुल्लो इमस्स त्ति ॥६॥
अक्षरगमनिका - परममन्त्ररूपं सूत्रमिति भावेन विधिना गृह्णाति । अस्य योगोऽपि बीजमधुरोदयोगतुल्य इति ॥६॥
५७५
वृत्तिः - परममन्त्ररूपं परमः श्रेष्ठो मन्त्रो देवादिसाधनं तद्वद् रूपं स्वरूपं यस्य तत् सूत्रं श्रीजिनोपज्ञं गणधरादिस्थविरैः सन्दृब्धं श्रुतम् इति हेतोः भावेन आन्तरप्रीत्या विधिना 'पत्तं परियाएणे'त्यादिना वक्ष्यमाणस्वरूपेण तत् सूत्रं यतिः गृह्णाति आददाति । सूत्रमाहात्म्यमेवाह
अस्य सूत्रस्याऽऽस्तां परिणतिः योगोऽपि विधिग्रहणलक्षणसम्बन्धोऽपि बीजमधुरोद - योगतुल्यो बीजं गोधूमादि तेन सह मधुरोदयोगः स्वादुजलसंयोगस्तेन तुल्यः समः अवश्यं सानुबन्धविरतिपरिणामफलो ज्ञानस्य फलं विरतिः इति हेतोर्भावेन विधिना गृह्णाति । अयं भावः-यथा बीजं मधुरजलसंयोगेन फलं प्रयच्छति तथैव चारित्रबीजं सूत्रलक्षणमधुरजलसंयोगेन मुक्तिफलं प्रयच्छतीति ॥६॥
अथाऽऽसेवनशिक्षामाह
-
आसेवइ य जहुतं तहा तहा सम्ममेस सुत्तत्थं । उचियं सिक्खापुव्वं नीसेसं उवहिपेहाए ॥११॥
अक्षरगमनिका -यथोक्तं सूत्रार्थं तथा तथैष उपधिप्रेक्षया शिक्षापूर्वमुचितं निःशेषं सम्यगासेवते ॥११॥
वृत्तिः - यथोक्तं येन येन प्रकारेण श्रीजिनवरगणधरैरुपदिष्टं सूत्रार्थं पूर्वोक्तस्वरूपं तथा तथा तेन तेन प्रकारेण एष यतिः उपधिप्रेक्षया उपधिर्मायाचारस्तत्प्रेक्षया निरीक्षणेन