________________
५७६
द्विविधा शिक्षा शिक्षापूर्वम् आत्मानुशासनपूर्वं यथा रे जीव ! माया संसारबीजम्, मोक्षमार्गप्रस्थितस्य तव किमनया, त्यजैनाम्, भव ऋजुः, ऋजूभूतस्य शोधिरिति । यदि वोपधिः वस्त्रपात्रादिस्तत्प्रेक्षया प्रतिलेखनेन सह शिक्षापूर्वम् आचार्योपाध्यायाद्युपदेशपूर्वम् उचितं देशकालस्वशक्त्यनुरूपं निःशेषं सर्वं यतिचर्यारूपं सम्यग् अवितथम् आसेवते अनुतिष्ठतीति ॥११॥
आसेवनशिक्षाया एव महत्त्वमाह -
पडिवत्तिविरहियाणं न हु सुयमित्तमुवयारगं होइ । नो आउरस्स रोगो नासइ तह ओसहसुईओ ॥ १२ ॥
अक्षरगमनिका - प्रतिपत्तिविरहितानां न खलु श्रुतमात्रमुपकारकं भवति । तथैौषधश्रुतितो नातुरस्य रोगो नश्यति ॥१२॥
वृत्ति: - प्रतिपत्तिविरहितानां प्रतिपत्तिरासेवनं प्रस्तावात् सूत्रार्थस्य तद्विरहितानां तच्छून्यानां न नैव हु प्राकृतत्वादवधारणे श्रुतमात्रं श्रवणगोचरीभूतमात्रम् उपकारकम् अनुग्राहकं भवति जायते । अत्रार्थे दृष्टान्तमाह - तथौषधश्रुतितः केवलं भेषजश्रवणाद् न नैव आतुरस्य रोगिणो रोगो व्याधिः नश्यति क्षयमुपैति, अपि तु तत्प्रयोगत एव नश्यति एवमेव सूत्रार्थासेवनादेव संसाररोगो नश्यति, न तु श्रवणमात्रत इति ॥१२॥
आस्तां प्रतिपत्तिविरहेण विपरीतेनापि क्रियायोगेन न नश्यति, अपि तु वर्धत इत्याह न य विवरीएणेसो किरियाजोगेण अवि य वड्डेइ ।
इय परिणामाओ खलु सव्वं खु जहुत्तमायरइ ॥१३॥
अक्षरगमनिका - न च विपरीतेन क्रियायोगेनैषः, अपि च वर्धत इति परिणामात् खलु सर्वं यथोक्तमाचरति ॥१३॥
-
वृत्तिः - न च नापि विपरीतेन विरोधिना क्रियायोगेन कुपथ्यादिसेवनलक्षणेन एष रोगो क्षयमुपैति, अपि च परं वर्धते एवमेवोत्सूत्राचरणेन भवरोगोपि न नश्यति, अपितु इति हेतोः परिणामाद् जिनोक्तमिति भावसारमेव खलुशब्दोऽवधारणे सर्वं निरवशेषं यथोक्तमाचरति यथा तीर्थकरगणधरैरुपदिष्टं तथैव श्रमणः अनुतिष्ठतीति ॥१३॥'
गुरुर्दशविधरुचीनां द्वादशाङ्गानां द्वादशोपाङ्गानां द्विविधशिक्षयोश्च बोधप्रतिपादनाचरणादिषु निष्णातो भवति ।
इत्थं षट्त्रिंशद्गुणगणसमन्वितो गुरुः परवादिनो जयतु ॥१४॥ इति त्रयोदशी षट्त्रिशिका समाप्ता ।