________________
५७४
द्वादश उपाङ्गानि अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः, सोऽस्ति येषां तेऽनुत्तरौपपातिकाः सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरौपपातिकदशा इति । 'पण्हावागरणं 'ति-प्रश्नाश्च पृच्छा व्याकरणानि च निर्वचनानि समाहारत्वात्प्रश्नव्याकरणं, तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणमिति । 'विवागसुयं 'ति-विपचनं विपाकः शुभाशुभकर्मपरिणाम इत्यर्थः, तत्प्रतिपादकं श्रुतं विपाकश्रुतम्। 'दिट्ठिवाओ'त्ति-दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादो दृष्टिवादः, दृष्टीनां वा पातो यत्राऽसौ दृष्टिपातः, सर्वनयदृष्टयो यत्राख्यायन्ते समवतरन्ति चेति भावः । इत्युत्कीर्तितं सामान्यतोऽङ्गप्रविष्टश्रुतम् ।'
उपाङ्गानि - अङ्गप्रतिबद्धानि शास्त्राणि । तानि द्वादश । तद्यथा - १ औपपातिकं, २ राजप्रश्नीयं, ३ जीवाजीवाभिगमः, ४ प्रज्ञापना, ५ जम्बूद्वीपप्रज्ञप्तिः, ६ चन्द्रप्रज्ञप्तिः, ७ सूर्यप्रज्ञप्तिः, ८ निरयावलिका, ९ कल्पावतंसिका, १० पुष्पिका, ११ पुष्पचूलिका, १२ वृष्णिदशा च । यदुक्तं श्रीप्रद्युम्नसूरिविरचिते विचारसारे -
'ओवइ रायपसेणीय जीवाभिगमो तहेव पन्नवणा। चंदस्स य सूरस्स य जंबुद्दीवस्स पन्नत्ती ॥३४७॥ निरयावलिया कप्पिय पुफिय तह पुष्फचूलिओवंगं ।'
वहिदसा दीवसागरपन्नत्ती मयविसेसेण ॥३४८॥' (छाया- औपपातिकं राजप्रश्नीयं जीवाभिगमस्तथैव प्रज्ञापना ।
चन्द्रस्य च सूर्यस्य च जम्बूद्वीपस्य प्रज्ञप्तयः ॥३४७॥ निरयावलिका कल्पिका पुष्पिका तथा पुष्पचूलिकोपाङ्गम् ।
वृष्णिदशा द्वीपसागरप्रज्ञप्तिर्मतविशेषेण ॥३४८॥) शिक्षा - अभ्यासः । सा द्विविधा । तद्यथा - १ ग्रहणशिक्षा, २ आसेवनशिक्षा च । उक्तञ्च विंशतिर्विशिकान्तर्गतद्वादशशिक्षार्विशिकायां श्रीहरिभद्रसूरिभिस्तद्वृत्तौ च श्रीकुलचन्द्रसूरिभिः -
"सिक्खा इमस्स दुविहा गहणासेवणगया मुणेयव्वा ।
सुत्तत्थगोयरेगा बीयाऽणुट्ठाणविसय त्ति ॥१॥ अक्षरगमनिका - अस्य शिक्षा ग्रहणाऽऽसेवनगता द्विविधा मुणितव्या-एका सूत्रार्थ