SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ द्वादश अङ्गानि ५७३ अङ्गानि द्वादश । तद्यथा - १ आचाराङ्गं, २ सूत्रकृताङ्ग, ३ स्थानाङ्ग, ४ समवायाकं, ५ व्याख्याप्रज्ञप्त्यङ्गं, ६ ज्ञाताधर्मकथाङ्गं, ७ उपासकदशाङ्ग, ८ अन्तकृतदशाङ्गं, ९ अनुत्तरौपपातिकदशाङ्गं, १० प्रश्नव्याकरणाङ्ग, ११ विपाकसूत्राङ्ग, १२ दृष्टिवादाङ्गञ्च । यदवोचत् पाक्षिकसूत्रे तद्वृत्तौ च - 'नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतं, तं जहा आयारो, सूयगडो, ठाणं, समवाओ, विवाहपन्नत्ती, नायाधम्मकहाओ, उवासगदसाओ, अन्तगडदसाओ, अणुत्तरोववाइयदसाओ, पण्हावागरणं, विवागसुयं, दिट्ठिवाओ १२। (छाया - नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं द्वादशाङ्गं गणिपिटकं भगवन्तम्, तद्यथा - आचारः, सूत्रकृतः, स्थानं, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञाताधर्मकथाः, उपासकदशाः, अन्तकृतदशाः, अनुत्तरौपपातिकदशाः, प्रश्नव्याकरणं, विपाकसूत्रं, दृष्टिवादः १२) वृत्तिः-एतच्च प्राग्वव्याख्येयं, नवरं गणिपिटकम् - आचार्यस्यार्थसारप्रधानभाजनमित्यर्थः । 'आयारो 'त्ति - आचरणमाचारः आचर्यत इति आचारः, शिष्टाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते । 'सूयगडो'त्ति - 'सूच सूचायां' सूचनात्सूत्रं सूत्रेण कृतं सूत्रकृतं स्वपरसमयादिसकलपदार्थसूचकं यदित्यर्थः । 'ठाणं'तितिष्ठन्त्यासते-वसन्ति यथावदभिधेयतयैकत्वादिविशेषिता आत्मादयः पदार्था यस्मिस्तत् स्थानम्, अथवा-स्थान-शब्देनेहैकादिकः सङ्ख्याभेदोऽभिधीयते ततश्चात्माद्यर्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानमाचाराभिधायकत्वादाचारवदिति । 'समवाओ'त्ति-समिति सम्यक्, अवेत्यधिकः, अयः जीवादिपरिच्छेदः समवायः, तद्धेतुश्च ग्रन्थोऽपि समवाय इति । 'विवाहपण्णत्ति'त्ति-विशिष्टा वाहा अर्थप्रवाहास्तत्त्वार्थविचारपद्धतय इत्यर्थः, तेषां प्रज्ञप्तिः प्रज्ञापनं व्याख्यानं यस्यां सा विवाहप्रज्ञप्तिः, पूज्यत्वेन नामान्तरतो भगवतीत्यपीयमुच्यते 'नायाधम्मकहाओ 'त्ति-ज्ञातान्युदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा 'उवासगदसाओ'त्ति-उपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशाध्ययनोपलक्षिता उपासकदशा: 'अन्तगडदसाओ'त्ति-अन्तो विनाशः, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च तीर्थकरादयस्तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षिता अन्तकृतदशा इति । 'अणुत्तरोववाइयदसाओ 'त्ति-उत्तरः प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः, उपपतनमुपपातो जन्मेत्यर्थः,
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy