________________
५७२
द्वादश अङ्गानि गमरूपं, चरित्रधर्मं च सामायिकादिभेदं श्रद्दधाति जिनाभिहितम् । धर्मेषु पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येति कृत्वा, स धर्मरुचिरिति ज्ञातव्यः । शिष्यव्युत्पादनार्थं चैवमुपाधिभेदतः सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु क्वचित्केषाञ्चिदन्तर्भावे न ह्येतावन्तो भेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः ॥२८/२७॥'
अङ्गानि - पञ्चचत्वारिंशदागमान्तर्गतानि श्रुतपुरुषस्याऽङ्गरूपाणि शास्त्राणि । यदाह श्रीनन्दिसूत्रवृत्तौ मलयगिरिपूज्याः -
'तत्राङ्गप्रविष्टमिति - इह पुरुषस्य द्वादशाङ्गानि भवन्ति, तद्यथा - द्वौ पादौ द्वे जके द्वे उरुणी द्वे गात्रा॰ द्वौ बाहू ग्रीवा शिरश्च, एवं श्रुतरूपस्यापि परमपुरुषस्याऽऽचारादीनि द्वादशाङ्गानि क्रमेण वेदितव्यानि, तथा चोक्तं -
'पायदुर्ग जंघोरुगायदुगद्धं तु दोय बाहू य ।
गीवा सिरं च पुरिसो बारसअङ्गो सुयविसिट्ठो ॥१॥' (छाया- पादद्विकं जङ्गोरुगात्रार्धद्विकं तु द्वौ च बाहू च ।
ग्रीवा शिरश्च पुरुषो द्वादशाङ्गः श्रुतविशिष्टः ॥१॥) श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम् - अङ्गभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमङ्गबाह्यत्वेन व्यवस्थितं तदनङ्गप्रविष्टं, अथवा यद्गणधरदेवकृतं तदप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतमाचारादिकं श्रुतमुपरचयन्ति, तेषामेव सर्वोत्कृष्टश्रुतलब्धिसम्पन्नतया तद्रचयितुमीशत्वात्, न शेषाणां, ततः तत्कृतं सूत्रं मूलभूतमित्यङ्गप्रविष्टमुच्यते, यत्पुनः शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टं, अथवा यत्सर्वदैव नियतमाचारादिकं श्रुतं तदङ्गप्रविष्टं, तथाहि - आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थं क्रमं चाधिकृत्यैवमेव व्यवस्थितं ततस्तदङ्गप्रविष्टमुच्यते, अङ्गप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः, शेषं तु यच्छ्रुतं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते, उक्तं
च
'गणहरकयमङ्गकयं जं कयं थेरेहिँ बाहिरं तं तु ।
निययं चांगपविट्ठ अणिययसुय बाहिरं भणियं ॥१॥' (छाया- गणधरकृतमङ्गकृतं यत्कृतं स्थविरैर्बाह्यं तत्तु ।
नियतं चाङ्गप्रविष्टं अनियतश्रुतं बाह्यं भणितम् ॥१॥)'