________________
दशविधा रुचिः
उपदेशरुचिमाह -
एए चेव उ भावे, उवइट्ठे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायव्वो ॥२८ / १९ ॥
(छाया - एतानेव तु भावान्, उपदिष्टान् यः परेण श्रद्दधाति । छद्मस्थेन जिनेन वा, उपदेशरुचिरिति ज्ञातव्यः ॥२८/१९॥)
वृत्ति: - एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति कीदृशेन परेणेत्याह - छद्मस्थेनानुत्पन्नकेवलज्ञानेन जिनेन वा सञ्जातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥२८/१९॥
अथ आज्ञारुचिमाह
-
रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणा रोअंतो, सो खलु आणारुई नाम ॥२८/२०॥
(छाया - रागो द्वेषो मोहो, अज्ञानं यस्य अपगतं भवति ।
आज्ञया रोचमानः, स खलु आज्ञारुचिः नाम ॥२८/२०|)
५६९
वृत्तिः - रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच्च 'आणाए 'त्ति आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः ॥२८/२०॥
सूत्ररुचिमाह -
जो सुत्तमहिज्जतो, सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायव्वो ॥२८/२१॥
(छाया- यः सूत्रमधीयानः, सूत्रेण अवगाहते तु सम्यक्त्वम् । अङ्गेन बाह्येन वा, स सूत्ररुचिरिति ज्ञातव्यः ॥२८/२१॥
वृत्ति: - यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूर्तौ सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २८/२१॥