________________
५६८
दशविधा रुचिः रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः ४ । बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः ५ । अनयोः समाहारः, एवेति समुच्चये । अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिविस्ताररुचिश्चेति ६-७ तथा क्रिया अनुष्ठानं, सक्षेपः सङ्ग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगात्क्रियारुचिः सङ्ख्परुचिर्धर्मरुचिश्च ८९-१० विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसक्षेपार्थः ॥२८/१६॥ व्यासार्थं तु स्वत एवाह सूत्रकृत् -
भूअत्येणाहिगया, जीवाऽजीवा य पुण्ण-पावं च ।
सहसंमुइआ आसवसंवरे अ, रोएइ उ निसग्गो ॥२८/१७॥ (छाया- भूतार्थत्वेनाधिगताः, जीवाजीवाश्च पुण्यपापं च ।
सहसम्मतिः आश्रवसंवरौ च, रोचते तु निसर्गः ॥२८/१७||) वृत्तिः- 'भूअत्येण 'त्ति भावप्रधानत्वान्निर्देशस्य भूतार्थत्वेन सद्भता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह - 'सहसंमुइ'त्ति सोपस्कारत्वात् सूत्रत्वाच्च सहात्मना या सङ्गता मतिः सा सहसम्मतिस्तया, कोऽर्थः ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च येनाधिगता इति योगः । यश्च 'रोएइ उत्ति रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गो'त्ति स निसर्गरुचिर्जेयः ॥२८/१७॥ अमुमेवार्थं स्पष्टतरमाह -
जो जिणदिवै भावे, चउव्विहे सद्दहइ सयमेव।
एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायव्वो ॥२८/१८॥ (छाया- यो जिनदृष्टान् भावान्, चतुर्विधान् श्रद्दधाति स्वयमेव ।
एवमेव नान्यथेति च, निसर्गरुचिरिति ज्ञातव्यः ॥२८/१८।।) वृत्तिः - यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह-एवमेवैतद्यथा जिनैदृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥२८/१८॥