________________
त्रयोदशी षट्त्रिशिका
अथ त्रयोदशीं षट्त्रिशिकामाह -
-
मूलम् - दसभेयाइ रुईए, दुवालसंगेसु बारुवंगेसु । दुविहसिक्खाइ निउणो, छत्तीसगुणो गुरू जयउ ॥१४॥
छाया - दशभेदायां रुचौ द्वादशाङ्गेषु द्वादशोपाङ्गेषु । द्विविधशिक्षायां निपुणः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१४॥
-
प्रेमीया वृत्तिः - दशभेदायां - दशभेदभिन्नायां रुचौ - तत्त्वाभिलाषरूपायां, द्वादशाङ्गेषु – द्वादशसु अङ्गेषु, द्वादशोपाङ्गेषु - द्वादशसूपाङ्गेषु, द्विविधशिक्षायां द्विविधायां शिक्षायां, चेति गम्यम्, निपुणः - निष्णात:, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः ।
जिनोक्ततत्त्वप्रीतिरूपा । सा दशधा । तद्यथा
१
-
भावार्थस्त्वयम् - रुचिः निसर्गरुचिः, २ उपदेशरुचिः, ३ आज्ञारुचि:, ४ सूत्ररुचिः, ५ बीजरुचि:, ६ अभिगमरुचिः, ७ विस्ताररुचिः, ८ क्रियारुचिः, ९ सङ्क्षेपरुचिः १० धर्मरुचिश्च । यदुक्तमुत्तराध्ययनसूत्रे महो. भावविजयकृततद्वृत्तौ च -
-
'निस्सग्गुवएसरुई, आणारुइ सुत्त - बीअरुइमेव । अभिगम - वित्थाररुइ, किरिआ - संखेव - धम्मरुई ॥२८ / १६ ॥
(छाया - निसर्गोपदेशरुचि:, आज्ञारुचिः सूत्रबीजरुचिरेव । अभिगम-विस्ताररुचिः, क्रिया-सङ्क्षेप - धर्मरुचिः ॥२८ / १६ ॥ )
-
वृत्तिः - ' निस्सग्गुवएसरुइ' त्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः स्वभावस्तेन रुचिस्तत्त्वाभिलाषोऽस्येति निसर्गरुचिः १ । उपदेशो गुर्वादिकथनं तेन रुचिर्यस्येत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेव त्ति इहापि