________________
५७०
दशविधा रुचिः बीजरुचिमाह -
एगेण अणेगाई, पयाइं जो पसई उ सम्मत्तं ।
उदए व तिल्लबिंदू, सो बीअरुइत्ति नायव्वो ॥२८/२२॥ (छाया- एकेन अनेकानि, पदानि यः प्रसरति तु सम्यक्त्वम् ।
उदके इव तैलबिन्दुः, स बीजरुचिरिति ज्ञातव्यः ॥२८/२२॥) वृत्तिः - एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाइं पयाईति विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तं 'ति सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात्, उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः ॥२८/२२।। अभिगमरुचिमाह -
सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिटुं।
एक्कारसअंगाई, पइण्णगं दिट्ठिवाओ अ॥२८/२३॥ (छाया- स भवति अभिगमरुचिः, श्रुतज्ञानं येन अर्थतो दृष्टम् । .
एकादशाङ्गानि, प्रकीर्णकानि दृष्टिवादश्च ॥२८/२३||) वृत्तिः - स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमङ्गं, च-शब्दादुपाङ्गानि च उपपातिकादीनि ॥२८/२३॥ विस्ताररुचिमाह -
दव्वाणं सव्वभावा, सव्वपमाणेहिं जस्स उवलद्धा ।
सव्वाहि नयविहिहि अ, वित्थाररुइत्ति नायव्वो ॥२८/२४॥ (छाया- द्रव्याणां सर्वभावाः, सर्वप्रमाणैः यस्य उपलब्धाः ।
सर्वैः नयविधिभिश्च, विस्ताररुचिरिति ज्ञातव्यः ॥२८/२४॥) वृत्तिः - द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव