SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अकल्पषट्कम् ५४७ मूलगुणाः, अधुनैतवृतिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः, यथोक्तम् - 'अकप्पो गिहिभायण'मित्यादि, तत्राकल्पो द्विविधः-शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च, तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनियुक्त्यादिनाऽऽनीतमाहारादि न कल्पत इति, उक्तं च - 'अणहीआ खलु जेणं पिंडेसणसेज्जवत्थपाएसा । तेणाणियाणि, जतिणो कप्पंति ण पिंडमाईणि ॥१॥ उउबलुमि न अणला वासावासे उ दोऽवि णो सेहा । दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ॥२॥' (छाया- अनधीताः खलु येन पिण्डैषणाशय्यावस्त्रपात्रैषणाः । तेनानीतानि यते: न कल्पन्ते पिण्डादीनि ॥१॥ ऋतुबद्धे नानलाः वर्षावासे तु द्वावपि न शैक्षकाः । दीक्ष्यन्ते प्रायः स्थापनाकल्पोऽयं भवति ॥२॥) । अकल्पस्थापनाकल्पमाह - 'जाई' ति सूत्रं, यानि चत्वारि अभोज्यानि संयमापकारित्वेनाकल्पनीयानि ऋषीणां साधूनाम् आहारादीनि आहारशय्यावस्त्रपात्राणि तानि तु विधिना वर्जयन् संयम सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः ॥६/ ४६॥ एतदेव स्पष्टयति - ‘पिंडंति सूत्रं, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटयर्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् कल्पिकं यथोचितमिति सूत्रार्थः ॥६/४७॥ कंसेसु कंसपाएस, कुंडमोएसु वा पुणो। भुंजंतो असणपाणाइं, आयारा परिभस्सइ ।।६/५०॥ (छाया- कंसेषु कंसपात्रेषु, कुण्डमोदेषु वा पुनः । भुञ्जानोऽशनपानादि आचारात् परिभ्रश्यति ॥६/५०॥) वृत्तिः - उक्तोऽकल्पस्तदभिधानात्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह - 'कंसेसु'त्ति सूत्रं, कंसेषु करोटकादिषु कंसपात्रेषु तिलकादिषु कुण्डमोदेषु हस्तिपादाकारेषु मृन्मयादिषु भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि आचारात् श्रमणसम्बन्धिनः परिभ्रश्यति अपैतीति सूत्रार्थः ॥६/५०॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy