________________
५४६
अकल्पषट्कम्
(छाया- क्षान्तिः मुक्तिरार्जवं मार्दवं तथा लाघवं तपश्चैव ।
संयमस्त्यागोऽकिञ्चन्यं बोद्धव्वं ब्रह्मचर्यं च ॥१॥) तत्र लाघवं-द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहार: त्यागः-सर्वसङ्गानां विमोचनं संयतेभ्यो वस्त्रादिदानं वा, शेषं प्राग्वत् ॥५५३॥'
गुरुर्दशविधस्य वैयावृत्त्यस्य दशविधस्य विनयस्य दशविधस्य च श्रमणधर्मस्य यथार्थं स्वरूपं परेभ्यः प्रकाशयति ।
अकल्पषट्कं - अकल्पादिषट्कम्, तदेवं ज्ञेयम् - १ अकल्पः, २ गृहस्थभाजनं, ३ पर्यङ्कः, ४ निषद्या, ५ स्नानं, ६ विभूषा च । उक्तञ्च समवायाङ्गसूत्रे तद्वृत्तौ च -
'वयछक्कं कायछक्कं, अकप्पो गिहिभायणं ।
पलियंक निसिज्जा य, सिणाणं सोभवज्जणं ॥१६॥ (छाया- व्रतषट्कं कायषट्कं, अकल्पः गृहिभाजनम् ।
पर्यङ्कः निषद्या च, स्नानं शोभावर्जनम् ॥१६॥) वृत्तिः - व्रतषट्कं-महाव्रतानि रात्रिभोजनविरतिश्च, कायषट्कं-पृथिवीकायादि, अकल्प:-अकल्पनीयपिण्डशय्यावस्त्रपात्ररूपः पदार्थः, गृहिभाजनं-स्थाल्यादि, पर्योमञ्चकादि, निषद्या-स्त्रिया सहासनं, स्नानं-शरीरक्षालनं, शोभावर्जनं-प्रतीतम् ॥१६॥ एतेषामकल्पादीनां स्वरूपमेवं प्रतिपादितं दशवैकालिकसूत्रे तद्वृत्तौ च -
'जाइं चत्तारि भुज्जाइं, इसिणाऽऽहारमाइणि । ताई तु विवज्जतो, संजमं अणुपालए ॥६/४६॥ पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य ।
अकप्पिन इच्छिज्जा, पडिगाहिज्ज कप्पिअं ॥६/४७॥ (छाया- यानि चत्वारि अभोज्यानि, ऋषिणामाहारादीनि ।
तानि तु विवर्जयन्, संयम अनुपालयेत् ॥६/४६॥ पिण्डं शय्यां च वस्त्रं च, चतुर्थं पात्रमेव च ।
अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् कल्पिकम् ॥६/४७|) वृत्तिः- उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता