________________
५४५
दशविधो धर्मः (छाया- आशातना मिथ्यात्वं, आशातनवर्जनात्सम्यक्त्वम् ।
___ आशातनानिमित्तं करोति दीर्घ च संसारम् ॥४१०॥) 'दसभेय 'त्ति एनं दशभेदं विनयम् - अर्हदादिषु भक्तिरूपं कुर्वाणो-विदधानो निहतमानो-विमुक्तजात्यादिमदावलेपो मानवः-प्राणी श्रद्धत्ते-सम्यक्तया चित्ते स्थापयति, किम् ? धर्मम्-अर्हदुक्तं, किम्भूतं ? विनयमूलं - विनयाधारं इति-पूर्वोक्त-प्रकारेण सम्यक्त्वं-सम्यग्दर्शनं विशोधयति-मिथ्यात्वपङ्कक्षालनेन निर्मलीकरोतीति गाथाचतुष्टयार्थः ॥२१-२२-२३-२४॥
धर्मः-पूर्वोक्तशब्दार्थः, स चाऽत्र श्रमणधर्मो ज्ञेयः । स दशविधः । तद्यथा - १ क्षान्तिः, २ मार्दवं, ३ आर्जवं, ४ मुक्तिः , ५ तपः, ६ संयमः, ७ सत्यं, ८ शौचं, ९ आकिञ्चन्यं, १० ब्रह्मचर्यञ्च । यदवाचि प्रवचनसारोद्धारे तद्वृत्तौ च - 'अथ श्रमणधर्ममाह -
खंती य मद्दवऽज्जव मुत्ती तव संजमे य बोद्धव्वे ।
सच्चं सोयं अकिंचणं च बंभं च जइधम्मो ॥५५३॥ (छाया- क्षान्तिश्च मार्दवमार्जवं मुक्तिः तपः संयमश्च बोद्धव्यः ।
सत्यं शौचं अकिञ्चनं च ब्रह्म च यतिधर्मः ॥५५३||) वृत्तिः - 'खंती'त्यादि, क्षान्ति:-क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सर्वथा क्रोधविवेक इत्यर्थः, मृदुः-अस्तब्धस्तस्य भावः कर्म वा मार्दवं-नीचैर्वृत्तिरनुत्सेकश्च, ऋजुः-अवक्रमनोवाक्कायकर्मा तस्य भावः कर्म वा आर्जवं-मनोवाक्कायविक्रियाविरहः मायारहितत्वमिति यावत्, मोचनं मुक्तिः-बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदः लोभपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तच्च द्वादशविधमनशनादि, संयमः आश्रवविरतिलक्षणः, सत्यं - मृषावादविरतिः, शौचं-संयम प्रति निरुपलेपता निरतीचारतेत्यर्थः, नास्य किञ्चनं-द्रव्यमस्तीत्यकिञ्चनः तस्य भाव आकिञ्चन्यं, उपलक्षणं चैतत् तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमाकिञ्चन्यं, नवब्रह्मचर्यगुप्तिसनाथ उपस्थसंयमो ब्रह्म, एष दशप्रकारो यतिधर्मः, अन्ये त्वेवं पठन्ति -
'खंती मुत्ती अज्जव महव तह लाघवे तवे चेव । संजम चियागऽकिंचनं बोद्धव्वं बंभचेरे य ॥१॥'