SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ५४८ अकल्पषट्कम् आसंदीपलिअंकेसु, मंचमासालएसुवा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥६/५३॥ (छाया- आसन्दीपर्यङ्कयोः, मञ्चाशालकयोर्वा । अनाचरितमार्याणां, आसितुं स्वप्तुं वा ॥६/५३||) वृत्तिः - उक्तो गृहिभाजनदोषः, तदभिधानाच्चतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह - 'आसंदी 'त्ति सूत्रं, आसन्दीपर्यको प्रतीतौ, तयोरासन्दीपर्ययोः प्रतीतयोः, मञ्चाशालकयोश्च, मञ्चः-प्रतीतः आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः एतयोः अनाचरितम् अनासेवितम् आर्याणां साधूनाम् आसितुम् उपवेष्टुं स्वप्तुं वा निद्रातिवाहनं वा कर्तुं, शुषिरदोषादिति सूत्रार्थः ॥६/५३॥ गोअरग्गपविट्ठस्स, निसिज्जा जस्स कप्पइ । इमेरिसमणायारं, आवज्जइ अबोहिअं॥६/५६॥ (छाया- गोचराग्रप्रविष्टस्य, निषद्या यस्य कल्पते । ईदृशमनाचारं, आपद्यते अबोधिकम् ॥६/५६॥) वृत्तिः - उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह - 'गोअरग्ग'त्ति सूत्र, गोचराग्रप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स खलु एवम् ईदृशं वक्ष्यमाणलक्षणमनाचारम् आपद्यते प्राप्नोति अबोधिकं मिथ्यात्वफलमिति सूत्रार्थः ॥६/५६॥ वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो, जढो हवइ संजमो ॥६/६०॥ (छाया- व्याधितो वा अरोगी वा, स्नानं यस्तु प्रार्थयते । . व्युत्क्रान्तो भवति आचारः, त्यक्तः भवति संयमः ॥६/६०॥) वृत्तिः - उक्तो निषद्यास्थानविधिः, तदभिधानात्षोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह - 'वाहिओ वत्ति सूत्रं, व्याधिमान् वा व्याधिग्रस्तः अरोगी वा रोगविप्रमुक्तो वा स्नानम् अङ्गप्रक्षालनं यस्तु प्रार्थयते सेवत इत्यर्थः, तेनेत्थम्भूतेन व्युत्क्रान्तो भवति आचारो बाह्यतपोरूपः, अस्नानपरीषहानतिसहनात्, जढ: परित्यक्तो भवति संयमः प्राणिरक्षणादिकः, अप्कायादिविराधनादिति सूत्रार्थः ॥६/६०॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy