SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ५४० दशविधो विनयः तेषां वर्ग:-समूहः । 'आयरिय'त्ति आचरन्ति पञ्चविधमाचारं प्रकटयन्ति वेत्याचार्याः, यदागमः - 'पंचविहं आयारं, आयरमाणा तहा पयासंता । आयारं दंसंता, आयरिया तेण वुच्चंति ॥१॥' (छाया- पञ्चविधं आचारं, आचरन्तः तथा प्रकाशयन्तः । आचारं दर्शयन्तः, आचार्याः तेन उच्यन्ते ॥१॥) 'उवज्झाय'त्ति उपेत्य समीपमागत्य येभ्यः सकाशात्सूत्रमधीयत इत्युपाध्यायाः, यदागमः 'बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । तं उवइसंति जम्हा, उवज्झाया तेण वुच्चंति ॥१॥' (छाया- द्वादशाङ्गः जिनाख्यातः स्वाध्यायः कथितः बुधैः । तं उपदिशन्ति यस्मात्, उपाध्यायास्तेन उच्यन्ते ॥१॥) आचार्योपाध्याययोविशेषणमाह - 'विसेसगुण'त्ति, विशेषगुणा ज्ञानदर्शनचारित्ररूपास्तैः सङ्गताः - सदाराधनयुक्ताः, क्व ? तत्र श्रीमज्जिनशासने, यतस्तैरेव प्रवचनं प्रवर्तते । यदुक्तम् - 'कइयावि जिणवरिंदा, पत्ता अयरामरं पहं दाउं । आयरिएहि पवयणं, धारिज्जइ संपयं सयलं ॥१२॥' (उपदेशमाला) (छाया- कदापि जिनवरेन्द्राः, प्राप्ताः अजरामरं पन्थानं दत्त्वा । आचार्यैः प्रवचनं, धार्यते साम्प्रतं सकलम् ॥१२॥) 'पवयण 'त्ति प्रवचनं अशेषः सङ्गः चतुर्विधश्रीश्रमणसङ्कः । 'दसणं'ति' - अत्र श्रीजिनशासने दर्शनं क्षायिकक्षायोपशमिकौपशमिकादिकं सम्यक्त्वमिच्छन्ति - प्ररूपयन्ति समयवेदिन इति । निगमयन्नाह - "विणय'त्ति एतेषां पूर्वोक्तानामर्हदादीनां दशानां विनय एवममुना प्रकारेण कर्त्तव्यः - करणीयो भवति-स्यात्, तुः निश्चय इति गाथात्रयार्थः ॥१८-१९-२०॥ स विनयः कीदृक्स्वरूप: ? किञ्च तस्य फलमिति ? गाथाचतुष्टयेनाह - भत्ती बहुमाणो वन्नजणण, नासणमवण्णवायस्स । आसायणपरिहारो, विणओ संखेवओ एसो ॥२१॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy