________________
दशविधो विनयः
५४१ भत्ती बहिपडिवत्ती, बहुमाणो मणसि निब्भरा पीई। वण्णजणणं तु तेसिं, अइसयगुणकित्तणाईहिं ॥२२॥ उड्डाहगोवणाई, भणियं नासणमवण्णवायस्स । आसायणपरिहरणं, उचियासणसेवणाइयं ॥२३॥ दसभेयविणयमेयं, कुणमाणो माणवो निहयमाणो।
सहहइ विणयमूलं, धम्मति विसोहए संमं ॥२४॥ (छाया- भक्तिः बहुमानः वर्णजननं, नाशनमवर्णवादस्य ।
आशातनपरिहारः, विनयः सझेपत एषः ॥२१॥ भक्तिः बहिःप्रतिपत्तिः, बहुमानः मनसि निर्भरा प्रीतिः । वर्णजननं तु तेषां, अतिशयगुणकीर्तनादिभिः ॥२२॥ हीलनागोपनादि, भणितं नाशनमवर्णवादस्य । आशातनपरिहरणं, उचितासनसेवनादिकम् ॥२३॥ दशभेदविनयमेनं कुर्वन् मानवो निहतमानः ।
श्रद्दधाति विनयमूलं, धर्ममिति विशोधयति सम्यक्त्वम् ॥२४॥) वृत्तिः - 'भत्ति 'त्ति भक्तिः बहुमानो वर्णजननं अवर्णवादनाशनं आशातनापरिहार एष सक्षेपतः - समासतो विनयः । भक्त्यादिभेदानां व्याख्यानमाह - 'भत्ति 'त्ति भक्तिर्बाह्या प्रतिपत्तिः - सम्मुखगमनासनदाननमस्करणसेवाकरणानुगमनादिका । 'बहुमाण'त्ति बहुमानं मनसि निर्भरा प्रीतिर्दर्शनादेव परमानन्दोल्लासः, 'वण्णजणणं 'ति वर्णजननं, अहंदादिश्लाघाकरणे महान् बोधिलाभः कर्तुरुपजायते । यदुक्तं स्थानाने -
_ 'पंचहि ठाणेहिं जीवा सुलहबोहित्ताए कम्मं पकरंति, तंजहा - अरहंताणं वण्णं वयमाणे, अरहंतपन्नत्तस्स धम्मस्स वण्णं वयमाणे, आयरियउवज्झायाणं वण्णं वयमाणे, चाउवण्णस्स संघस्स वण्णं वयमाणे, विविक्कतवबंभचेराणं देवाणं वण्णं वयमाणे ।'
(छाया- पञ्चभिः स्थानैः जीवाः सुलभबोधित्वाय कर्म प्रकुर्वन्ति, तद्यथा - अर्हतां वर्णं वदन्, अर्हत्प्रज्ञप्तस्य धर्मस्य वर्णं वदन्, आचार्योपाध्यायानां वर्णं वदन्, चातुर्वर्णस्य सङ्घस्य वर्णं वदन्, विविक्ततपोब्रह्मचर्याणां देवानां वर्णं वदन् ।)
तुः पुनरर्थे, 'उड्डाह'त्ति नाशनं स्फेटनं, कस्य ? अवर्णवादस्यार्हदाद्यश्लाघारूपस्य,