SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ५३९ दशविधो विनयः कोडिसयाई पनरस, कोडी बायाल लक्ख अडवन्ना । लक्खा छत्तीसं पुण, असीइअहियाउ सव्वग्गं ॥४॥ (छाया- देवेषु कोटिशतं, कोटिः द्विपञ्चाशत् लक्षाणि चतुर्णवतिः च । सहस्राणि चतुश्चत्वारिंशत्, सप्तशतानि षष्ट्यभ्यधिकानि ॥१॥ लक्षत्रिकं एकनवतिः सहस्राणि, विंशत्यधिकानि च त्रीणि शतानि । ज्योतिर्वर्जयित्वा, तिर्यग् जिनबिम्बसङ्ख्या इयम् ॥२॥ त्रयोदश कोटिशतानि, एकोननवतिः कोटिः षष्टिः लक्षाणि । भवनपतीनां मध्ये, ज्योतिष्कव्यन्तरेषु चासङ्ख्येयानि ॥३॥ कोटिशतानि पञ्चदश, कोटिः द्विचत्वारिंशत् लक्षाणि अष्टपञ्चाशत् । लक्षाणि षट्त्रिंशत् पुनः, अशीतिअधिकानि तु सर्वाग्रम् ॥४॥) अशाश्वतप्रतिमास्तु श्रीभरतचक्रवर्त्यादिभिः कारिताः । तासां प्रतिस्थानभणनं ग्रन्थगौरवभयान्न प्रोक्तमिति । 'सुर्य'ति श्रुतं सामायिकादिकं, तच्च सम्यक्त्वसामायिक श्रुतसामायिक-देशविरतिसामायिक-सर्वविरतिसामायिकभेदाच्चतुर्द्धा, तत्र सम्यक्त्वसामायिकं औपशमिकादिसम्यक्त्वावाप्तिः, श्रुतसामायिकं जघन्योत्कृष्टभेदाद् द्विधा - जघन्यमष्टप्रवचनमातृपठनरूपं, इतरच्च द्वादशाङ्गीपठनरूपं, देशविरतिसामायिकं गृहस्थद्वादव्रतपालनरूपं, सर्वविरतिसामायिकं तु सर्वसावद्यवर्जनमिति, 'धम्म'त्ति धर्म एकादिदशान्तभेदः । यदुक्तं - 'श्रीधर्मो दययैकथा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानास्त्रिविधश्चतुर्विधतया ख्यातो व्रतैः पञ्चधा । षोढा कायसुरक्षणेन नयतः सप्ताष्टधा मातृभिस्तत्त्वैः स्यान्नवधा तथा दशविधः क्षान्त्यादिभिः सद्गुणैः ॥१॥' इत्यादिभेदरूपो धर्मश्चारित्रधर्मः । 'तस्स'त्ति तस्य चारित्रधर्मस्य आधारो-भारसहनशीलः साधुवर्गः, साधयन्ति मोक्षमार्गमिति साधवः, यदागमः - "निव्वाणसाहए जोए, जम्हा साहंति साहुणो । समा य सव्वभूएसु, तम्हा ते सव्व( भाव) साहुणो ॥१॥' (छाया- निर्वाणसाधकयोगान्, यस्मात् साधयन्ति साधवः ।। समा च सर्वभूतेषु, तस्मात् ते सर्व(भाव) साधवः) ॥१॥)
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy