SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ५३८ दशविधो विनयः 'सिद्धत्ति सितं ध्मातं कर्म यैस्ते सिद्धाः, यदागमः - 'दीहकालरयं जं तु, कम्मं से सियमट्ठहा। सियं धंतंति सिद्धस्स, सिद्धत्तमुवजायए ॥१॥' (छाया- दीर्घकालरजो यत्तु, कर्म तस्य सितमष्टधा । सितं ध्मातमिति सिद्धस्य, सिद्धत्वमुपजायते ॥१॥) यद्यपि - 'कम्मे सिप्पे य विज्जाए, मंते जोगे य आगमे । अत्यजत्ताअभिप्पाए, तवे कम्मक्खए इय ॥१॥' (छाया- कर्मणि शिल्पे च विद्यायां, मन्त्रे योगे चागमे । अर्थयात्राभिप्रायेषु, तपसि कर्मक्षये इति ॥१॥) इत्यादयः सिद्धाः सन्ति, परं नात्र तदुपादानं, अत एव 'कम्मक्खयत्ति' कर्मक्षयात्सकलकर्मप्रलयात् शिवं-मुक्तिमपुनरावृत्तिरुपां प्राप्ता-गतवन्तः, तेऽपि च पञ्चदशभेदभिन्नाः, यदागमः - 'जिणअजिणतित्थतित्था, गिहिअन्नसलिंगथीनरनपुंसा । पत्तेयसयंबुद्धा, बुद्धबोहिक्कणिक्का य ॥१॥' (छाया- जिनाजिनतीर्थातीर्थाः, गृहिअन्यस्वलिङ्गस्त्रीनरनपुंसकाः । प्रत्येकस्वयम्बुद्धाः, बुद्धबोधितैकानेकाश्च ॥१॥) 'पडिमत्ति' प्रतिमाश्चैत्यानि, ताश्चोद्धर्वतिर्यगधोलोकव्यवस्थिताः शाश्वताशाश्वत जिनभवनप्रतिष्ठितास्तीर्थकृन्मूर्तयः । तत्र शाश्वतप्रतिमासङ्ख्या चैवम् - 'देवेसुं कोडिसयं, कोडि बावन्न लक्ख (चउ)णवई य । सहसा चउयालीसं, सत्तसया सट्ठीअब्भहिया ॥१॥ लक्खतिगं इगनई सहस्स, वीसाहिया य तिन्नि सया । जोइसिय वज्जिऊणं, तिरियं जिणबिंबसंख इमा ॥२॥ तेरस कोडिसयाई, गुणनई कोडि सट्ठि लक्खाई। भवणवईणं मझे, जोइसियवणेसु य असंखा ॥३॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy