________________
दशविधो विनयः
५३७ यद्यप्येवं प्रवचने विनयभेदा भूयांसः प्रोक्तास्तथाऽप्यत्र ग्रन्थकृता दशैव स्वीकृता इति गाथार्थः ॥१७॥ तत्स्वरूपं चाग्रेतनगाथात्रयेणाह -
अरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेईयाई, सुयंति सामाइयाईयं ॥१८॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गत्ति । आयरियउवज्झाया, विसेसगुणसंगया तत्थ ॥१९॥ पवयणमसेससंघो, दसणमिच्छंति इत्थ सम्मत्तं ।
विणओ दसण्हमेसि, कायव्वो होइ एवं तु ॥२०॥ (छाया- अर्हन्तो विहरन्तः, सिद्धाः कर्मक्षयात् शिवं प्राप्ताः ।
प्रतिमाः चैत्यानि, श्रुतमिति सामायिकादिकम् ॥१८॥ धर्मः चारित्रधर्मः, आधारः तस्य साधुवर्ग इति । आचार्योपाध्याया, विशेषगुणसङ्गताः तत्र ॥१९॥ प्रवचनमशेषसङ्घो, दर्शनमिच्छन्ति अत्र सम्यक्त्वम् ।
विनयो दशानामेतेषां, कर्तव्यो भवति एवं तु ॥२०॥) वृत्तिः - ‘अरिहन्त'त्ति, अर्हन्ति सुरासुरादिकृतां पूजामित्यर्हन्तः, यदागमः -
_ 'अरिहंति वंदणनमंसणाणि, अरिहंति पूयसक्कारं ।
सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति ॥१॥' (छाया- अर्हन्ति वन्दननमस्करणाणि, अर्हन्ति पूजासत्कारौ ।
सिद्धिगमनस्य च अर्हाः, अर्हन्तस्तेनोच्यन्ते ॥१॥) अत्राहच्छब्देन के उपादीयन्त इत्याह - 'विहरंत 'त्ति विहरन्तः सम्प्रतिकाले विहरमाणा उत्कृष्टजघन्यभेदात् श्रीसीमन्धरस्वामिप्रभृतयो महिमण्डलमण्डनभूताः, यदागमः -
'सत्तरिसयमुक्कोसं, जहन्न वीसा य दस य विहरति ।
जम्मं पइ उक्कोसं, वीसं दस हुँति हु जहन्ना ॥१॥' (छाया- सप्ततिशतमुत्कृष्टं, जघन्यं विंशतिः च दश च विहरन्ति ।
जन्म प्रति उत्कृष्टं, विंशतिः दश भवन्ति खलु जघन्याः ॥१॥)