________________
५३६
दशविधो विनयः (छाया- दर्शनज्ञानचारित्रेषु, तपसि च तथा औपचारिकश्चैव ।
मोक्षार्थमेष विनयः, पञ्चविधो भवति ज्ञातव्यः ॥१॥ द्रव्यादि श्रद्दधन्, ज्ञानेन कुर्वति कार्याणि । चरणं तपश्च सम्यक्, कुर्वाणे भवति तद्विनयः ॥२॥ अथ औपचारिकः पुनः, द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयोजनं, तथा च अनाशातनाविनयः ॥३॥ प्रतिरूपः खलु विनयः, कायिकयोगे च वाग्मानसिकः । अष्टौ चतुर्विधः द्विविधः, प्ररूपणा तस्येयं भवति ॥४॥ अभ्युत्थानं अञ्जलिः, आसनदानं अभिग्रहः कृतिश्च । शुश्रूषणं अनुगमनं, संसाधनं कायअष्टविधः ॥५॥ हितमितापरुषवादी, अनुवीचिभाषी वाचिको विनयः । अकुशलमनोनिरोधः, कुशलमनउदीरणं चैव ॥६॥ प्रतिरूपः खलु विनयः, परानुवृत्तिमयो ज्ञातव्यः । अप्रतिरूपो विनयो, ज्ञातव्यः केवलिनां तु ॥७॥ एष तुभ्यं परिकथितः, विनयः प्रतिरूपलक्षणः त्रिविधः । द्विपञ्चाशद्विधिविधानं, ब्रुवन्ति अनाशातनाविनयम् ॥८॥ तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनां । आचार्यस्थविरोपाध्यायगणिनां त्रयोदश पदानि ॥९॥ अनाशातना च भक्तिः, बहुमानस्तथा च वर्णसज्वलना ।
तीर्थकरादयः त्रयोदश, चतुर्गुणा भवन्ति द्विपञ्चाशत् ॥१०॥) एवंविधो विनयः सर्वगुणमूलत्वेन प्रावचनिकैर्गृह्यते, यदुक्तम् -
"विणयो सासणे मूलं, विणीओ संजओ भवे ।
विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो? ॥३४१॥'(उपदेशमाला) (छाया- विनयः शासने मूलं, विनीतः संयतो भवेत् ।
विनयात् विप्रमुक्तस्य, कुतो धर्मः कुतस्तपः ? ॥३४१॥)