SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ चतुर्विधस्तपःसमाधिः भवति, न गौरवाद्यालम्बनेन १, तथाऽध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम् - ज्ञानमित्यध्ययनपरस्य ज्ञानं भवति एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति स्थित इति विवेकाद्धर्मस्थितो भवति स्थापयति परमिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च रतः सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ॥३॥ चउव्विहा खलु तवसमाही भवइ, तंजहा-नो इहलोगट्ठयाए तवमहिट्ठिज्जा १ नो परलोगट्ठयाए तवमहिट्ठिज्जा २, नो कित्तिवण्णसद्दसिलोगट्टयाए तवमहिट्ठिज्जा ३, नन्नत्थ निज्जलुयाए तवमहिट्ठिज्जा ४, चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो विविहगुणतवोरए निच्चं, भवइ निरासए निज्जरट्ठिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥४॥ (छाया- चतुर्विधा खलु तप:समाधिः भवति, तद्यथा - न इहलोकार्थं तपः अधितिष्ठेत् १, न परलोकार्थं तपः अधितिष्ठेत् २, न कीर्तिवर्णशब्दश्लोकार्थं तपः अधितिष्ठेत् ३, नान्यत्र निर्जरार्थं तपः अधितिष्ठेत् ४, चतुर्थं पदं भवति । भवति च अत्र श्लोकः - विविध-गुणतपोरतः नित्यं, भवति निराशः निर्जरार्थिकः । तपसा धुनोति पुराणपापकं, युक्तः सदा तप:समाधौ ॥४॥) वृत्तिः - उक्तः श्रुतसमाधिः, तप:समाधिमाह-चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, न इहलोकार्थम् इहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः अनशनादिरूपम् अधितिष्ठेत् न कुर्याद्धम्मिलवत् १, तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद्ब्रह्मदत्तवत्, एवं न कीर्तिवर्णशब्दश्लाघार्थमिति सर्वदिग्व्यापी साधुवादः कीतिः एकदिग्व्यापी वर्ण: अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत्, अपि तु नान्यत्र निर्जरार्थमिति न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिजरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः । चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम् - विविधगुणतपोरतो हि नित्यम्अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्प्रत्याश इहलोकादिषु
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy