________________
५२०
चतुर्विध आचारसमाधिः निर्जरार्थिकः कर्मनिर्जरार्थी, स एवम्भूतस्तपसा विशुद्धेन धुनोति अपनयति पुराणपापं चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपः समाधाविति सूत्रार्थः ॥४॥
चडव्विहा खलु आयारसमाही भवइ, तंजहा - नो इहलोगट्टयाए आयारमहिट्ठिज्जा १, नो परलोगट्टयाए आयारमहिट्टिज्जा २, नो कित्तिवण्णसद्दसिलोगट्टयाए आयारमहिट्टिज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिद्विज्जा - ४ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो
जिणवयणरए अर्तितिणे, पडिपुन्नाययमाययट्ठिए । आयारसमाहिसंवुडे, भवइ अ दंते भावसंध ॥५॥
(छाया - चतुर्विधा खलु आचारसमाधिः भवति, तद्यथा न इहलोकार्थं आचारमधितिष्ठेत् १, न परलोकार्थं आचारमधितिष्ठेत् २, न कीर्त्तिवर्णशब्दश्लोकार्थं आचारमधितिष्ठेत् ३, नान्यत्र आर्हतैः हेतुभिः आचारमधितिष्ठेत् ४ चतुर्थं पदं भवति । भवति च अत्र श्लोक:
जिनवचनरतः अतिन्तिनः, प्रतिपूर्णः आयतमायतार्थिकः । आचारसमाधिसंवृतः, भवति च दान्तः भावसन्धकः ||५||)
वृत्तिः - उक्तस्तपः समाधिः, आचारसमाधिमाह - चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्यादि चाचाराभिधानभेदेन पूर्ववद्यावन्नान्यत्र आर्हतैः अर्हत्सम्बन्धिभिर्हेतुभिरना श्रवत्वादिभिः आचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीहः सन् यथा मोक्ष एव भवतीति । चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम् - जिनवचनरत आगमे सक्तः अतिन्तिनः न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता प्रतिपूर्णः सूत्रादिना, आयतमायतार्थिक इत्यत्यन्तं मोक्षार्थी आचारसमाधिसंवृत इति आचारे यः समाधिस्तेन स्थगिता श्रवद्वारः सन् भवति दान्त इन्द्रियनोइन्द्रियदमाभ्यां भावसन्धकः भावो - मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति सूत्रार्थ: 11411...118/811'
गुरुः प्रत्येकं चतुर्भेदभिन्नांश्चतुरो विनयादिसमाधीन् सम्यग् जानाति । इत्येवं षट्त्रिंशद्गुणपुष्पसुरभिमान् गुरुर्दुरितदुरभिगन्धं हरतु ॥१२॥ इत्येकादशी षट्त्रिशिका समाप्ता ।